सामग्री पर जाएँ
सर्वकोश
कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)

DevanagariHindipublished1,079 पृष्ठ

पृष्ठ 97, कुल 1079 में से

संदर्भ में पढ़ें
पृष्ठ 97

७६ कथासरित्सागर
तदलं परितापेन तवदानीं शमं कुरु ।
भवितव्यं हि धात्रापि न शक्यमतिवर्तितुम् ॥२३६॥
इति तस्मात्कपेः श्रुत्वा शाकमोहं विहाय तम् ।
ययौ निश्चयवसोऽत्र विरक्तः शरणं शिवम् ॥२३७॥
अथ तत्र वने सुहृवा कपिना सह तिष्ठतस्ततो निकटम् ।
तस्याजगाम दैवात्तपस्विनी मोक्षदा नाम ॥२३८॥
सा तं क्रमेण दृष्ट्वा प्रणतं पप्रच्छ मानुषस्य सतः ।
चित्रं कथमिह जातो मित्रं ते मर्कटोऽयमिति ॥२३९॥
यतः स्वं वृत्तान्तं तदनु च स मित्रस्य चरितं
समाचख्यो तस्यै कृपणमथ तामेवमवदत् ।
प्रयागं मग्नं वा यदि भगवती वेत्ति तदिमं
परिभ्रंशात् सन्मित्रं सुहृदमधुना मोचयतु मे ॥२४०॥
श्रुत्वा सा तस्य वाचं कपेस्तत्
सूत्रं कण्ठामन्त्रयुक्त्या मुमोच ।
सोऽथ त्यक्त्वा मर्कटीमाकृतिं तां
सामस्वामी पूर्ववन्मानुषोऽभूत् ॥२४१॥
तस्यां ततश्च तद्विद्यां तिरोहितायां
दिव्यप्रभावभूमिं भूरि तपो विधाय ।
प्राप्य तत्र शिवं निश्चयसमोम-
स्यामसिद्धा प्रययतुः परमां गतिं तौ ॥२४२॥
एवं निजगुणगण्या रमना विचर-
पद्यते विषयदोषपरिग्रहवशा ।
साध्वी तु रागिणी तासु कुरु विरक्तिं
यासां फलं न तनुतापमवाप्नुवन्ति ॥२४३॥
इत्येतां नरवाहनदत्तो रुचिरास्य गोमुखस्य मुखात् ।
चिन्तामपश्य कथां श्रुत्वैव गताधमार्गेण ॥ २४४ ॥
इति कथासरित्सागरे मदनमञ्चुकालम्बके षष्ठस्तरङ्गः समाप्तः ।
शुभं भूयात् ।