सामग्री पर जाएँ
सर्वकोश
कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

Kathasaritsagara Part 2 (Lambaka 6–18)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)

DevanagariHindipublished1,079 पृष्ठ

पृष्ठ 964, कुल 1079 में से

संदर्भ में पढ़ें
पृष्ठ 964

११४ कथासरित्सागर
वस्त्यौषधं गुदे मूर्ख दीयते न तु पीयते।
अह प्रतीक्षितं किं नेत्युपालभ्यत तेन स ॥११८॥
इतीष्टमप्यनिष्टाय जायतेऽविधिना कृतम्।
तस्मान्न विधिमुत्सृज्य प्राज्ञः कुर्वीत किञ्चन ॥११९॥
मूर्ख पुरुषस्य तपस्विनाञ्च कथा
अप्रेक्षापूर्वकारी च निन्द्यतेऽल्पहृतक्षणात्।
तथा च कुत्रचित् कश्चित् जडबुद्धिरभूत् पुमान् ॥१२०॥
तस्य देशान्तरं यातुं गच्छतोऽन्वागतः सुतः।
अटव्यां वासिते सार्थे विवेश विहरन् वनम् ॥१२१॥
पाटितो मर्कटैः सोऽत्र कुब्छाम्बीबधुपेत्य तम्।
वृक्षानभिज्ञः पितरं पृच्छन्तमवदज्जडः ॥१२२॥
वनेऽस्मि पाटितः कैश्चित्सलोमशैः फलमक्षिभिः।
तच्छ्रुत्वा क्रोधकृप्तासिस्तत्पिता तद्वनं ययौ ॥१२३॥
दृष्ट्वा फलान्यादधानाञ्जटिलांस्तत्र तापसान्।
सोऽम्यधावत्क्षवोन्मीभिः सुतो मे लोमशैरिति ॥१२४॥
ऋक्षेस्तैः पाटितः पुत्रो मद्दृष्टैर्मा वधीर्मुनीन्।
इत्थवार्यत पान्थेन तद्भ्रात् सोऽप्य केनचित् ॥१२५॥
ततः स वैशामुत्तीर्णं पावकात्सार्थमागतः।
तन्न जातुचिदप्रेक्षापूर्वकारी भवेदबुधः ॥१२६॥
किमम्यत् सर्वथा भाव्यं जन्तुना कृतबुद्धिना।
लोकोपहसिताः शश्वत् सीदन्त्येव ह्यबुद्धयः ॥१२७॥
तथा च निर्धनः कश्चित् प्राप्तवानध्वनि ब्रजन्।
सार्थवाहस्य कस्यापि च्युतां हेममृतां वृतिम् ॥१२८॥
स मूढस्तां गृहीत्वैव न जगामान्यतोऽपि च।
स्थित्वा तत्रैव सख्यातुमारेभे हेम तच्च तत् ॥१२९॥
तावत्स्मृत्वा हयारूढः प्रत्यागत्य स सत्वरम्।
सार्थवाहोऽस्य दृष्टस्य हेमभस्त्रां जहार ताम् ॥१३०॥
ततः स वृष्टनष्टार्थः शोचन् प्रायादथामुखः।
प्राप्तोऽप्यर्थः क्षणादेव हार्यते मन्दबुद्धिना ॥१३१॥