कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)
Kathasaritsagara Part 2 (Lambaka 6–18)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)
पृष्ठ 962, कुल 1079 में से
संदर्भ में पढ़ें१८ कथासरित्सागर
पुच्छं शिरस्त्वभूदद्य चक्षुष्मत्प्रकृतं पुनः ।
अहं मुख्यमहं मुख्यमित्यासीदाग्रहस्तयोः ॥१७६॥
सर्पस्तु प्रकृतेमेव मुखेन विषधार सः ।
एकदास्य शिरः पोच्छं मार्गे कष्टमवाप तत् ॥१७७॥
वेष्टयित्वा दृढं वृक्षं सर्पस्यास्यारुणद् गतिम् ।
ततस्तद्बलवन्मेने स सर्पोऽप्रशिरोजयि ॥१७८॥
तेनैव पाथेन तत स मुखेन भ्रमन्नहिः ।
अवटेऽग्नौ परिभ्रष्टो मार्गदृष्टेरदह्यत ॥१७९॥
एवं गुणस्य मेऽल्पस्य बहवो नान्तरं विदुः ।
ते हीनगुणसङ्गेन मूढा यान्ति पराभवम् ॥१८०॥
तण्डुलभक्षकस्य कथा
इमं च शृणुतेदानीं भीतं तण्डुलभक्षकम् ।
आगात् कश्चित्पुमा मूर्खः प्रथमं श्वाशुरं गृहम् ॥१८१॥
स तत्र तण्डुलाञ्श्वश्र्वा पाकार्थं स्थापितान् सितान् ।
दृष्ट्वा भक्षयितुं तेषां मुष्टिं प्राक्षिपदानने ॥१८२॥
तत्क्षणादागतायां च श्वश्र्वां मूर्खः स तण्डुलान् ।
नाशकसन्निगिरितुं न चाप्युद्गिरितुं ह्रिया ॥१८३॥
तत्पीनोच्छूनगल्लं च निरालापमवेक्ष्य तम् ।
तद्रोगशङ्कयाहूय तच्छ्वश्रूः पतिमानयत् ॥१८४॥
सोऽप्यालोक्य निनायाशु वैद्यं वैद्योऽप्यपाटयत् ।
शोफशङ्की हनू तस्य मूर्खस्याक्रम्य मस्तकम् ॥१८५॥
निर्ययुर्लोकहासेन समं तस्य च तण्डुलाः ।
इत्यकार्यं करोत्यज्ञो न च जानाति गूहितुम् ॥१८६॥
गर्भवद्दुग्धदोहककथा
कश्चिच्च दारका मूर्खा दृष्ट्वोहा गवाद्विषु ।
गर्भं प्राप्य समुद्ध्य दोग्धुमारेभिरे रसात् ॥१८७॥
कश्चिज्जुधुवदोहं कश्चिच्च क्षीरकुण्डमधारयत् ।
बह्र प्राथम्रिकान्येषां पयः पातुमवर्तत ॥१८८॥