कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)
Kathasaritsagara Part 2 (Lambaka 6–18)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)
पृष्ठ 958, कुल 1079 में से
संदर्भ में पढ़ें९४ कथासरित्सागर
स्नात्वागतस्तथाभूतं स दृष्ट्वा गदभं हरिः।
क्व कर्णौ हृदयं चास्येत्यपृच्छत् च जम्बुकम्॥१४८॥
जम्बुकः सोऽप्यवादीत्समकर्णहृदयः प्रभो।
प्रागवासीत्कथं गत्वाप्यागच्छेदन्यथा ह्ययम्॥१४९॥
सच्छ्रुत्वा स तथैवेति मत्वा केसरर्यभक्षयत्।
तन्मांसमन्यतच्छेषं जम्बुकोऽपि चखाद सः॥१५०॥
इत्याख्याय कपिर्भूयः शिशूमारमुवाच तम्।
तन्नावेक्ष्यामह्यं भूयः करिष्यामि स्वरामितम्॥१५१॥
एवं तस्मात्कपः श्रुत्वा शिशूमारो ययौ गृहम्।
मोहादसिद्ध भार्यार्थं क्षोभन्मित्रं च हारितम्॥१५२॥
तस्सव्यापगमाच्चास्य भार्या प्रकृतिमाययौ।
कपिः सोऽप्यम्बुधेस्तीरे चचार च यथासुखम्॥१५३॥
तथैव विश्वसेन्नेव बुद्धिमान् दुर्जने जने।
दुर्जने कृष्णसर्पे च कुतो विश्वासतः सुखम्॥१५४॥
इत्याख्याय कथां मन्त्री गोमुखः पुनरेव सः।
नरवाहनदत्तं तं निजगाद विनोदयन्॥१५५॥
शृण्विदानीं क्रमादन्यानुपहास्यानिमान् जडान्।
तत्रैमं शृणु गान्धर्वपरितोषकरं जडम्॥१५६॥
मापण्डस्य वणिकस्य च कथा
कश्चिद् गान्धर्बिकनाड्यो गीतवाद्येन तोषितः।
माण्डागारिकमाहूय तत्समक्षमभाषत॥१५७॥
देहि गान्धर्विकायास्मै द्वे सहस्रे पणानिति।
एव करोमीत्युक्त्वा च स माण्डागारिको ययौ॥१५८॥
गान्धर्विकोऽथ गत्वा तान् पणास्तस्मादयाचत।
न चास्मै स्थितसद्वित्तान् पणान् माण्डागरिको ददौ॥१५९॥
अथापृष्टस्तेन विज्ञाप्तस्तत्कृते वैणिकेन सः।
उवाच किं त्वया दत्तं येन प्रतिददानि ते॥१६०॥
वीणावाद्येन मे क्षिप्रं त्वया श्रुतिसुखं कृतम्।
तथैव दानवाक्येन कृतं क्षिप्रं मयापि ते॥१६१॥