कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)
Kathasaritsagara Part 2 (Lambaka 6–18)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)
पृष्ठ 952, कुल 1079 में से
संदर्भ में पढ़ेंकथासरित्सागर
आगमिष्ये स्वमादाय हृत्पद्मं स्वस्त्रियाकृत ।
यासोद्युम्बरवृक्षे हि तद्विदानीं मम स्थितम् ॥१२०॥
सच्छ्रुत्वा शिशुमारस्तमार्त्तो मूर्खोऽब्रवीदिदम् ।
तर्ह्यतैवानयहि त्वमुदुम्बरतरोरिति ॥१२१॥
आनितायाम्बुधेस्तीरं शिशुमारः पुनः स तम् ।
तत्र तेनान्तकेनेव मुक्तः स च कपिस्तटम् ॥१२२॥
उत्पत्यारुह्य वृक्षाग्रं शिशुमारमुवाच तम् ।
गच्छ रे मूर्ख हृदयं देहाद्भवति किं पृथक् ॥१२३॥
मयैव मोचितो ह्यात्मा न चात्रेष्याम्यहं पुनः ।
किमत्र न श्रुता मूर्ख गर्दभाख्यायिका त्वया ॥१२४॥
कर्णहृदयहीनस्य गर्दभस्य कथा
आसीद्गोमायुसचिवः सिंहः कोऽपि वने क्वचित् ।
॥१२५॥¹
स जात्वासटकायावेनाप्त भूपेन केनचित् ।
आहुतो धृतिमञ्जीवन् कथमप्यविशद्गुहाम् ॥१२६॥
तत्र स्थित गते तस्मिन् राज्यनाहारनिःसहम् ।
तच्छेषाभिषवृत्तिः सन्गोमायुः सचिवोऽभ्यधात् ॥१२७॥
निर्गत्य किं यथाशक्ति नाहारं चिनुषे प्रभो ।
सीदत्येष शरीरं ते समं परिजनेन यत् ॥१२८॥
इत्युक्तः स शृगालेन तत्र सिंहो जगाद तम् ।
सखे नाहं व्रणाक्रान्तः शक्नोमि भ्रमितुं क्वचित् ॥१२९॥
खरस्य कर्णहृदयं भक्ष्यं प्राप्नोमि चेदहम् ॥
तन्मे व्रणानि रोहन्ति प्रकृतिस्थो भवामि च ॥१३०॥
तदानय कुतोऽपि त्वं गत्वा गर्दभमाशु मे ।
इत्युक्तस्तं गोमायुः स तथेति ययौ ततः ॥१३१॥
भ्रमञ्जलाश्रयान्तिके दृष्ट्वा रजकस्य स गर्दभम् ॥
प्रीत्येवोपत्य वक्ति स्म दुर्बलः किं भवानिति ॥१३२॥
१ मूलपुस्तके पदार्धं त्रुटितमस्ति ।