सामग्री पर जाएँ
सर्वकोश
कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)

DevanagariHindipublished1,079 पृष्ठ

पृष्ठ 95, कुल 1079 में से

संदर्भ में पढ़ें
पृष्ठ 95

७४ कथासरित्सागर
इत्युक्तस्तेन स ज्ञानी मर्कटस्समभाषत ।
गच्छ सुप्तामिदानीं तां स्थितां कृत्वाऽङ्गरुहसिनीम् ॥२२२॥
तद्धस्तविद्यया व्योम्ना तामानय मदन्तिकम् ।
यावन्महद्विहाटथ्यं दर्शयाम्यधुनैव च ॥२२३॥
तच्छ्रुत्वा खेन गत्वैव सोऽनुरागपरो ततः।
दृष्ट्वा निश्चयदत्तस्तां सुप्तामङ्केऽग्रहील्लघु ॥२२४॥
न तु विद्याधरं तस्या नाङ्गे लग्नं ददर्श सः ।
सुप्तं विद्याधसेनाथाववृश्यं विहितं तया ॥२२५॥
उत्पत्य चान्तरिक्षं तामनुरागपरां क्षणात् ।
आनिनाय कपेस्तस्य स सोऽगत्स्वामिनोऽन्तिकम् ॥२२६॥
स कपिर्विद्ययुक्तेस्मै तथा योगमुपादिदत्।
येन विद्याधरं तस्याः कण्ठे लग्नं ददर्श सः ॥२२७॥
दृष्ट्वा च हा भिगोतस्स्मीति तं वादिनं कपिः।
स एव तत्त्वदर्शी तच्चेष्टावृत्तमबोधयत् ॥२२८॥
क्रुद्धे निश्चयदत्तेऽथ तस्मिन् विद्याधरोऽत्र सः ।
प्रबुद्धस्तत्प्रियाकामी समुत्पत्य तिरोबभे ॥२२९॥
सापि प्रबुद्धा तत्कालमनुरागपरात्मनः ।
रहस्यमेदं तं दृष्ट्वा ह्रिया तस्याप्यधोमुखी ॥२३०॥
ततो निश्चयदत्तस्तामुवाचोदश्रुलोचनः ।
विश्वस्तोऽहं कथं पापे त्वयैव बत वञ्चितः ॥२३१॥
अत्यन्तसञ्छन्नस्येह पारवश्य निबन्धने ।
कामं विज्ञायते युक्तिर्न स्त्रीचित्तस्य काचन ॥२३२॥
इति ब्रुवति तस्मिन्सामुत्तरा रुदती शनैः ।
अनुरागपरोत्पत्य विप्रं धाम निजं ययौ ॥२३३॥
ततो निश्चयदत्तस्तं सुहृन्मर्कटमब्रवीत् ।
एतां यन्म्यभावस्त्वं वारितोऽपि ममा प्रियाम् ॥२३४॥
त्यक्त्व तीव्ररागान्धैः पश्चाद्यदनुतप्यते ।
कः हि सम्पत्सु चपलास्वाश्वासो वनितासु च ॥२३५॥