कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)
Kathasaritsagara Part 2 (Lambaka 6–18)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)
पृष्ठ 948, कुल 1079 में से
संदर्भ में पढ़ें८९८ कथासरित्सागर
यद्यपि त्वं न कुरुषे नेच्छस्येषा तथाप्यहम्।
ब्रवीमि विदुष ह्येवं जनानां निह्रुतेः कथम्॥१०५॥
स तावदस्या भार्यायास्तत्कालोत्थो महागदः।
विना वानरहृत्पद्मयूषं न शममेति यः॥१०६॥
इत्युक्तः स प्रियासख्या शिशुमारो व्यचिन्तयत्।
कष्टं वानरहृत्पद्मं कुतः सम्प्राप्नुयामहम॥१०७॥
सख्युः करोमि धग्द्रोहं कपस्तत्किं ममोचितम्।
सख्या किमथवा भार्या प्राणेभ्योऽप्यधिकप्रिया॥१०८॥
इत्यालोच्य स्वभार्यां तां शिशुमारो जगाद सः।
तद्यानिष्याम्यखण्डं ते कपिं किं ब्रूयसे प्रिये॥१०९॥
इत्युक्त्वा स ययौ तस्य मित्रस्य निकटं कपेः।
यथाप्रसङ्गमन्याद्य तमेवमवदत् कपिम्॥११०॥
अद्यापि न सखे दृष्टं गृहं भार्या च मे त्वया।
तदेहि तत्र गच्छावो विध्यमार्यकमप्यहम्॥१११॥
भुज्यते यत्र नात्येत्य गृहमभ्य निरर्गलम्।
प्रनृत्यन्त न दाराश्च कृतैव तन्न सोङ्गवम्॥११२॥
इति प्रतार्य जलभाववतार्याधिलम्ब्य च।
वानरं शिशुमारस्तं गन्तुं प्रवृत्तोऽथ सः॥११३॥
गच्छन्तं तं स दृष्ट्वा च मानरहृच्चिन्ताकुलम्।
सखेऽप्यापुद्यमद्य त्वां पश्यामीति स पृष्टवान्॥११४॥
नियन्धनाप पृच्छन्त मत्वा हस्तस्थितं च तम्।
प्लवङ्गमं जगादथ शिशुमारो जहाशयः॥११५॥
अस्वस्था मे स्थिता भार्या सा च पथ्योपयोगि माम्।
याचते कपिहृत्पद्मं तेनाद्य विमनाः स्थिता॥११६॥
श्रुत्वैतत्स भषस्तस्य कपिः प्राज्ञो व्यचिन्तयत्।
हन्ततदर्थमानीय पापेनाहमिहामुना॥११७॥
अहो स्त्रीव्यसनाक्रान्तो मित्रद्रोहेऽप्युद्यतः।
किं वा दन्तैः स्वमांसानि भूतग्रस्ता न खादति॥११८॥
इत्थं गच्छिन्नथ च प्राह शिशुमारं स वानरः।
यद्येवं तत्त्वयतन्मे किं नास्तं प्रथमं मये॥११९॥