कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)
Kathasaritsagara Part 2 (Lambaka 6–18)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)
पृष्ठ 944, कुल 1079 में से
संदर्भ में पढ़ेंकुर्वंस्तदुपविष्टं च जातु व्रतमुपोषणम्।
शठेन साय मेनापि भोजिष्ठोऽस्मि बलात्पुनः ॥७६॥
तेनाहं खण्डितात्तस्माद्व्रताज्जातोऽस्मि गुह्यकः।
पूर्णं यद्यकरिष्यं तदभविष्यं सुरो दिवि ॥७७॥
एवं मयोक्तः स्वोदन्तो युवां कथयतं तु मे।
कुतो युवां किमेतां च प्रविष्टौ स्थो महत्स्थलीम् ॥७८॥
तच्छ्रुत्वा सोऽब्रवीत्तस्मै स्ववृत्तान्तं यशोधरः।
ततस्तो ब्राह्मणो यक्षः पुनरेवमभाषत ॥७९॥
यद्येवं सर्वहृद्विद्याः स्वप्रभावादहामि वाम्।
कृतविद्यौ गृहं यात विदेशभ्रमणेन किम् ॥८०॥
इत्युक्त्वा स ददौ ताभ्यां विद्यास्तो च तदैव ताः।
तत्प्रभावाज्जगृहतुः सोऽथ यक्षो जगाद तौ ॥८१॥
एकाभिदानीं याचेऽहं भवद्भ्यां गुरुदक्षिणाम्।
युवाभ्यां मत्कृते कार्यं व्रतमद्यत्वपोषणम् ॥८२॥
सत्याभिभाषणं ब्रह्मचर्यं देवप्रदक्षिणम्।
भोजनं भिक्षुवेलायां मनसः संयमः क्षमा ॥८३॥
एकरात्रं विधायैतदर्पणीयं फलं मयि।
पूर्णव्रतफलं येन दिव्यत्वं प्राप्नुयामहेम् ॥८४॥
इत्युक्तवान्विनाभ्यां ताभ्यां यक्षस्तथेति सः।
विश्राम्य प्रतिपद्यार्थस्तत्रैवान्तर्दधे तरो ॥८५॥
तौ चाप्रयाससिद्धाथौ प्रहृष्टौ भ्रातरावुभौ।
रात्रिं नीत्वा परावृत्य स्वमेवाजग्मतुर्गृहम् ॥८६॥
तत्राख्याय स्ववृत्तान्तमानन्द्य पितरौ निजौ।
उपोषणव्रतं तत्तौ यक्षपुण्याय चक्रतुः ॥८७॥
अथैत्य स गुह्यक्षो विमानस्थो जगाद तौ।
युष्मत्प्रसादाद्युक्त्वं प्राप्तोऽस्म्युत्तीर्य यक्षताम् ॥८८॥
तदात्मार्थमिदं कार्यं युवाभ्यामपि तद्व्रतम्।
भविता येन दवत्वं देहान्ते युवयोरिति ॥८९॥
अक्षीणांशाविदानीं च धरामत्र सजिष्यथः।
इत्युक्त्वा स विमानेन कामचारी ययौ दिवम् ॥९०॥