सामग्री पर जाएँ
सर्वकोश
कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

Kathasaritsagara Part 2 (Lambaka 6–18)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)

DevanagariHindipublished1,079 पृष्ठ

पृष्ठ 919, कुल 1079 में से

संदर्भ में पढ़ें
पृष्ठ 919

८४० कथासरित्सागर
यूयं तृणाद्यैराच्छाद्य द्वारं नीडगुहान्तरे।
दिवा तदापातभयात् सर्वे तिष्ठन्तु रक्षिताः ॥१४३॥
इत्युक्त्वा तृणपर्णादिच्छन्नद्वारगुहागतान्।
कुरूलोलूकानन्यो पार्श्वं चिरजीवी निजप्रभोः ॥१४४॥
तद्युवत्पश्चायायातावत्त्वह्रवीपाधितोल्युकः ।
लब्ध्वा प्रज्वलितैरेककाष्ठिकैः सह वायसैः ॥१४५॥
आगत्यैव विवान्धानां तेषां छन्नं तृणादिभिः।
उलूकानां गुहाद्वारं ज्वारयामास वह्निना ॥१४६॥
प्राक्षिपस्तत्रवैकस्तदानीं तादृशं काष्ठिकम् ।
समिध्याग्निं यदाहान् तानुलूकान् सराजकान् ॥१४७॥
विनाश्य शत्रू काकेन्द्रस्तुष्टोऽथ श्रुतोथ सः।
समं काककुलेनागाभिज न्यग्रोधपादपम् ॥१४८॥
तत्रास्थाय द्विपमध्यवासवृत्तान्तमात्मनः।
काकेन्द्रं मघवन्नं तं चिरजीव्यब्रवीदिदम् ॥१४९॥
रक्ताक्ष एव सन्मन्त्री तस्यासीत्स्वद्विषो प्रभो।
तस्यापकुर्वता वाक्यं मदान्धेनाभ्युपेक्षितं ॥१५०॥
यदस्याकारणं मत्वा वचनं नाकरोच्छठः।
अतः सोऽपनयी मूर्खो मया विश्वास्य वञ्चितः ॥१५१॥
व्याजानुवृत्त्या विश्वास्य मण्डूका अहिना यथा।
भूयः कश्चित्सुखं प्राप्तुमशक्तः पुरुषाधमे ॥१५२॥
भेकवाहनसर्पस्य कथा
भेकानहिः सरस्तीरे तस्मिंस्तस्थौ सुनििश्चलः।
तथास्थितं च तं भेकाः पप्रच्छुर्दूरवर्तिनः ॥१५३॥
ब्रूहि किं पूर्ववन्नास्मान्स्नास्यद्य भवानिति।
इति पृष्टस्तदा भेकैः स तेः प्रोवाच पन्नगः ॥१५४॥
मया ब्राह्मणपुत्रस्य मण्डूकमनुधावता।
भ्रान्त्या दष्टो बतोऽङ्गुष्ठः स च पञ्चत्वमाययौ ॥१५५॥
तत्पित्रा चास्मि शापेन भेकानां वाहनीकृतः।
तद्युष्मान् कथमश्नामि प्रत्युताहं वहामि वः ॥१५६॥
तच्छ्रुत्वा तत्र भेकानां राजा वाहसमुत्सुकः।
जलादुत्तीर्य तत्पृष्ठमारोहदमतीर्मुदा ॥१५७॥