कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)
Kathasaritsagara Part 2 (Lambaka 6–18)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)
पृष्ठ 917, कुल 1079 में से
संदर्भ में पढ़ें८१८ कथासरित्सागर
मत्तोऽपि बलवान् मेघ स मां स्थगयति क्षणात्।
तच्छ्रुत्वा तं विसृज्याथ मेघमाहूतवान्मुनिः ॥१२८॥
तं तथैव च सोऽवादीत्तेनाप्येवमवादि सः।
मत्तोऽपि बलवान् वायुर्यो विक्षिपति दिक्षु माम् ॥१२९॥
इत्युक्तो तेन स मुनिर्वायुमाह्वयति स्म तम्।
स तथैव च तेनोक्तस्तमेवमवदन्मरुत् ॥१३०॥
मयापि ये न चाल्यन्ते मत्तस्ते बलिनोऽद्रयः।
श्रुत्वैतदथ शैलेन्द्रमाह्वयन् मुनिसत्तमः ॥१३१॥
तस्मैव यावत्तद्वक्ति तावत्सोऽद्रिर्जगाद तम्।
मूषका बलिनो मत्तो ये मे छिद्राणि कुर्वते ॥१३२॥
इति क्रमेण प्रत्युक्तो दैवतैर्ज्ञानिभिः स तैः।
महर्षिराजुहावैकं मूषकं वनसम्भवम् ॥१३३॥
कन्यां गृहेतामित्युक्तस्तेनोवाच स मूषकः।
कथं प्रवेक्ष्यति बिलं ममेषा दृश्यतामिति ॥१३४॥
पूर्ववन्मूषिकैवास्तु वरमित्यथ स ब्रुवन्।
मुनिस्तां मूषिकां कृत्वा तस्मै प्रायच्छदाश्रमे ॥१३५॥
एवं सुदूरं गत्वापि भो यावृक्तानुगेन सः।
त्वमुलूको न जातु त्वं चिरजीविन् भविष्यसि ॥१३६॥
इत्युक्तश्चिरजीवी स रक्ताक्षेण व्यचिन्तयत्।
नीतिज्ञस्य न चैतस्य राज्ञानेन कृतं वचः ॥१३७॥
शेषा मूर्खा इमे सर्वे तत्कार्यं सिद्धमेव मे।
इति सञ्चिन्तयन्तं तमादाय चिरजीविनम् ॥१३८॥
अविचार्यैव रक्ताक्षवाक्यं तद्बलमन्वितः।
उलूकराजः स ययावथर्बो निजं पदम् ॥१३९॥
चिरजीवी च तहस्तमांसाद्यशनपोषितः।
तत्पार्श्वस्थोऽचिरेणैव बर्हीबाभूत् सुपक्षतिः ॥१४०॥
एकदा तमुलूकेन्द्रमथवद्देश गाम्यहम्।
आश्वास्य काकराजं तमानयामि स्वमास्पदम् ॥१४१॥
येन रात्रौ निपत्याथ युष्माभिः स निहन्यते।
अह भवामि चैतस्य स्वप्रसादस्य निष्कृतिम् ॥१४२॥