सामग्री पर जाएँ
सर्वकोश
कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

Kathasaritsagara Part 2 (Lambaka 6–18)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)

DevanagariHindipublished1,079 पृष्ठ

पृष्ठ 899, कुल 1079 में से

संदर्भ में पढ़ें
पृष्ठ 899

८५ कथासरित्सागर
तत्र शक्तियशः सोत्कं तं विनोदयितुं निशि ।
ततः स गोमुखो धीमानिमामकथयत् कथाम् ॥४॥
काकोलूकीयकथा
बभूव क्वापि सञ्छायो महान्न्यग्रोधपादपः ।
शकुन्तशब्द्यैः पथिकान् विश्रमायाह्वयन्निव ॥५॥
तत्रासीन् मेघवर्णाख्यः काकराजः कृतालयः ।
तस्यावमर्द्दनामाभूदुलूकाधिपती रिपुः ॥६॥
स तस्य काकराजस्य तत्र रात्रावुलूकराट् ।
एत्य काकान् बहून् हत्वा कृत्वा परिभवं ययौ ॥७॥
प्रातः स काकराजोऽथ समाज्योवाच मन्त्रिणः ।
उड्डीम्पाडीविसण्डीविप्रडीविचिरजीविनः ॥८॥
स शत्रुः परिभूयास्मान् रूढशत्रुर्यो बली पुनः ।
आपतत्येव तत्तत्र प्रतीकारो निरूप्यताम् ॥९॥
तच्छ्रुत्वाभाषतोड्डीवी शत्रौ बलवति प्रभो ।
अन्यवेद्याद्य कार्यस्तस्यानुनयोऽथवा ॥१०॥
धूखैतदाडीब्याह स्म सह्यो न भयमप्यवः ।
पराश्रयं स्वशक्तिं च वीक्ष्य कुर्मो यथाक्षमम् ॥११॥
ततो जगाद सण्डीवी मरणं देव शोभनम् ।
न तु प्रणमनं शत्रोर्विषेणे वापि जीवनम् ॥१२॥
योद्धव्यं तेन साकं नः कृतावज्ञेन शत्रुना ।
राजा सहायवाञ्शूरः सोत्साहो जयति द्विषः ॥१३॥
अथ प्रडीवी वक्ति स्म न वध्यः स बली रणे ।
सन्धिं कृत्वा तु हन्तव्यः सम्प्राप्तावसरे पुनः ॥१४॥
चिरजीवी ततोऽवादीत् कः सन्धिर्धूत एव कः ।
आसृष्टि वैरं काकानामुल्लूकस्तत्र को ब्रजेत् ॥१५॥
मन्त्रसाध्यमिदं मन्त्रो मूलं राज्यस्य चोच्यते ।
श्रुत्वैतत्काकराजस्तं सोऽब्रवीच्चिरजीविनम् ॥१६॥
वृद्धस्त्वं वेत्सि चेत्तन्मे ब्रूहि त्वं केन हेतुना ।
काकोलूकस्य वैरिञ्च मन्त्रं वदयस्यतः परम् ॥१७॥