कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)
पृष्ठ 89, कुल 1079 में से
संदर्भ में पढ़ें[Header]
२८ कथासरित्सागर
ययौ निश्चयदस्तत्स्कन्धारूढ प्रियां प्रति।
प्रयातुमापृच्छ्य कपिं स्मर्तव्योऽस्मीति वादिनम् ॥ १७९ ॥
निशीथे च हिमाद्रौ तामनुरागपरा पितुः।
पुरीं विद्याधरपतेः प्राप्तवान् पुष्करावतीम् ॥ १८० ॥
तावत्प्रभावतो बुद्ध्वा तदस्यागमनं सा।
ततो नगर्या निरगादनुरागपरा बहिः ॥ १८१ ॥
इयमायाति ते कान्ता निशि नेत्रोत्सवप्रदा।
इन्दुमूर्तिर्द्वितीयेव तदिदानीं व्रजाम्यहम् ॥ १८२ ॥
इत्युक्त्वा दर्शयित्वा तामसावादवतारितम्।
नत्वा निश्चयदत्तं तमथ सा यक्षिणी ययौ ॥ १८३ ॥
ततः सापि चिरोत्सुक्यसंरम्भाश्लिङ्गनादिभिः।
उपगम्याभ्यनन्दत्तमनुरागपरा प्रियम् ॥ १८४ ॥
सोऽप्याश्लिष्य बहुक्लेशलब्धतत्संगमोत्सवः।
अवर्तमानः स्वे देहे तनुं तस्या इवाविशत् ॥ १८५ ॥
तेन गान्धर्वविधिना भार्या भूत्वाथ तस्य सा।
अनुरागपरा सद्यो विद्यया निर्ममे पुरम् ॥ १८६ ॥
तस्मिन्निश्चयदत्तोऽसौ बाह्ये तस्थौ तया सह।
तद्विद्याच्छन्नदृष्टिभ्यां तत्पितृभ्यामतरिकतः ॥ १८७ ॥
पृष्टस्तांस्तावृथांस्तस्यै मार्गक्लेशाञ्छशंस यत्।
तेन सा बहु मेने तं भोगैश्चेष्टैरुपाचरत् ॥ १८८ ॥
अथ तन्मर्कटीभूतसोमस्वामिकथाऽमृतम्।
सोऽत्र निश्चयदत्तोऽस्यै विद्याधर्यै न्यवेदयत् ॥ १८९ ॥
जगाद चैतन्मित्रं मे त्वत्प्रयत्नेन केनचित्।
तिर्यक्त्वान्नहि मुच्येत तत्प्रिये सुकृतं भवेत् ॥ १९० ॥
इत्युक्ता तेन सावोचदनुरागपरापि तम्।
योगिन्या मन्त्रमार्गोऽयं नास्माकं विषयः पुनः ॥ १९१ ॥
तथापि साधयिष्यामि प्रियमेतदहं तव।
अभ्यर्च्य मद्ररूपाख्यां वयस्यां सिद्धयोगिनीम् ॥ १९२ ॥
तच्छ्रुत्वा स वणिक्पुत्रो हृष्टस्तामवदत् प्रियाम्।
तर्हि तं पश्य मन्मित्रमेहि यावत्त्वदन्तिकम् ॥ १९३ ॥