सामग्री पर जाएँ
सर्वकोश
कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

Kathasaritsagara Part 2 (Lambaka 6–18)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)

DevanagariHindipublished1,079 पृष्ठ

पृष्ठ 887, कुल 1079 में से

संदर्भ में पढ़ें
पृष्ठ 887

८१८ कथासरित्सागर
ब्रह्मचारि पुत्रस्य कथा
कश्चित् पितृगुणाख्यानप्रवृत्तमखिमध्यग ।
मुग्धः स्वपितुरुच्चैष वर्णयन्नवमभ्यधात् ॥२४८॥
आबाल्याद्ब्रह्मचारी मे पिता नान्योऽस्ति तत्समः ।
तच्छ्रुत्वा त्वं कुतो जात इति तं सुहृदोऽब्रुवन् ॥२४९॥
मानसोऽहं सुतस्तस्येत्येव पुनरपि ब्रुवन् ।
विशेषतो विहसितः स तैर्मूढशिरोमणिः ॥२५०॥
अत्यारूढ वदन्त्येवमसम्बद्धं जहादायाः ।
ब्रह्मचारिसुतं श्रुत्वा श्रूयतां गणकोऽप्ययम् ॥२५१॥
मूर्खज्योतिर्विदः कथा
बभूव नाम गणकः कश्चिदविज्ञानवर्जितः ।
स भार्यापुत्रसहितः स्वदेशाद्वृत्त्यभावतः ॥२५२॥
गत्वा देशान्तरं तत्र मिथ्याविज्ञानमात्मनः ।
कृतकप्रत्ययेनार्थपूजां प्राप्तुमदीधयत् ॥२५३॥
परिष्वज्य सुतं बालं स तं सर्वजनाग्रतः ।
रुरोद पृष्टश्च जनैरथ पापो जगाद सः ॥२५४॥
भूत भव्यं भविष्यच्च जानेऽहं तदयं शिशुः ।
विपत्स्यते मे दिवसे सप्तमे तेन रोदिमि ॥२५५॥
इत्युक्त्वा तत्र विस्माप्य लोकं प्राप्तेऽह्नि सप्तमे ।
प्रत्यूष एव सुप्तं च स व्यापादितवान् सुतम् ॥२५६॥
दृष्ट्वाथ तं मृतं बालं सञ्जातप्रत्ययैर्जनैः ।
पूजितो धनमासाद्य स्वदेशं स्वैरमाययौ ॥२५७॥
इत्यर्थलोभात् मिथ्यैव विज्ञानस्थापनेच्छवः ।
मूर्खा पुत्रमपि घ्नन्ति न रम्येष्वेषु बुद्धिमान् ॥२५८॥
क्रोधिनो मूर्खस्य कथा
अथ च श्रूयतां मूर्खः क्रोधनः पुरुषः प्रभो ।
बहिः स्थितस्य कस्यापि पुंसः कुत्रापि शृण्वतः ॥२५९॥
अभ्यन्तरे गुणान् कश्चिच्छशंस स्वजनाग्रतः ।
तदा चैकोऽब्रवीत्तत्र सत्यं स गुणवान् सखे ॥२६०॥
किं तु द्वौ तस्य दोषौ स्तः साहसी क्रोधनश्च यत् ।
इति वादिनमेवैतं बहिर्वर्ती निशम्य सः ॥२६१॥
पुमान् प्रविश्य सहसा वाससावेष्टयद् गले ।
रे चास्ति साहस किं मे क्रोधः कच्चन मया कृतः ॥२६२॥