सामग्री पर जाएँ
सर्वकोश
कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

Kathasaritsagara Part 2 (Lambaka 6–18)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)

DevanagariHindipublished1,079 पृष्ठ

पृष्ठ 871, कुल 1079 में से

संदर्भ में पढ़ें
पृष्ठ 871

नीत्वा च तन्मे सर्वस्वं हारं मूर्ध्नि निधाय च।
आगन्तुस्थायिनौ हृष्टौ प्रव्राजौ स्वपतः स्म तौ ॥११३॥
प्रसुप्तयोस्तयोस्त्वं च हर्तुं मां पुनरागतम्।
प्रबुद्ध्याताडयद्यष्ट्या प्रद्राट् स्थायी स मूर्ध्नि मे ॥११४॥
तेनाहं व्रणितो दैवान्न मृतो बिलमाविशम्।
भूयश्च शक्तिर्नाभून्मे तदन्नाहरणप्लवे ॥११५॥
अर्थो हि यौवनं पुंसां तदभावश्च वार्द्धकम्।
तन्नाश्योजो बलं रूपमुत्साहश्चापि हीयते ॥११६॥
अथात्ममात्रभरणे यत्नवन्तमवेक्ष्य माम्।
परित्यज्य गतं सर्वं स मूषकपरिच्छदः ॥११७॥
अवृत्तिकं प्रभुं भृत्या अपुष्पं भ्रमरास्तरुम्।
अजलं च सरो हंसा मुञ्चन्त्यपि चिरोषितम् ॥११८॥
इत्थं तत्र चिरोद्विग्नः सुहृदं लघुपतिनम्।
प्राप्यैतं कच्छपश्रेष्ठं त्वत्पार्श्वमहमागतः ॥११९॥
एवं हिरण्यकेनोक्ते कूर्मो मन्थरकोऽभ्यधात्।
स्वमत्र स्थानमत्से तन्मा मित्राधृतिं कृथाः ॥१२०॥
गुणिनो न विदेशोऽस्ति न सन्तुष्टस्य चासुखम्।
धीरस्य च विपन्नास्ति नासाध्यं व्यवसायिनः ॥१२१॥
इति तस्मिन् वदत्येव कूर्मे चित्राङ्गसंज्ञकः।
दूरतो व्याधवित्रस्तो मृगस्तद्भवनमाययौ ॥१२२॥
तं दृष्ट्वा तस्य दृष्ट्या च पश्चाद् व्याधमनागतम्।
आश्वासितेन तेनापि सख्यं कूर्मादयो व्यधुः ॥१२३॥
न्यवसस्ते ततस्तत्र काककूर्ममृगाखवः।
परस्परोपकारेण सुखिनः सुहृदः समम् ॥१२४॥
एकदा क्वापि चित्राङ्गं चिरायातं तमीक्षितुम्।
आरुह्य तरुमशिष्टं लघुपती स तद्वनम् ॥१२५॥
ददर्श च नदीतीरे कीलपाशेन संयतम्।
चित्राङ्गमवदच्चैतत्तत्त्वदत्त्वाऽलुकूर्मयोः ॥१२६॥
तत सम्मन्त्र्य चञ्च्वा तं गृहीत्वाऽमुं हिरण्यकम्।
चित्राङ्गस्यान्तिकं तस्य लघुपती निनाय सः ॥१२७॥