कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)
Kathasaritsagara Part 2 (Lambaka 6–18)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)
पृष्ठ 859, कुल 1079 में से
संदर्भ में पढ़ें४१२ कथासरित्सागर
काककूर्ममृगाखूनां कथा¹
अभूत्क्वापि वनोद्देशे महाञ्छाल्मलिपादपः ।
उवास लघुपतीति काकस्तत्र कृतालयः ॥५८॥
स कदाचित् स्वनीडस्थो ददर्शाङ्घ्रि तरोरधः ।
जालगृहस्तं सलगुडं रौद्रं पुरुषमागतम् ॥५९॥
ततः स धीसखे यावत्काकस्तावद् वितत्य सः ।
जालं भुवि विकीर्यात्र व्रीहीञ्छन्नोऽभवत्पुमान् ॥६० ॥
तावच्च चित्रग्रीवाख्यः पारावतपतिर्भ्रमन् ।
तत्राजगाम नभसा पारावतशतैर्वृतः ॥६१॥
स व्रीहिप्रकरं दृष्ट्वा जालेऽत्राहारलिप्सया ।
पतितः पाशनिकरैर्बद्धोऽभूत्सपरिच्छदः ॥६२॥
तद्दृष्ट्वा सानुगान् सर्वांश्चित्रग्रीवो जगाद सः ।
गृहीत्वा चञ्चुभिर्जालं समुत्पतत वेगतः ॥६३॥
ततस्तथेति ते जालमादायोत्पत्य वेगतः ।
कपोता नभसा गन्तुं भीताः प्रारेभिरेऽखिलाः ॥६४॥
सोऽप्युत्थायाध्वंनुखिन्नो लुब्धकः सन्यवर्त्तत ।
निर्भयोऽथ जगादैतांश्चित्रग्रीवोऽनुयायिनः ॥६५॥
मममित्रस्य हिरण्यस्य मूषकस्यान्तिकं द्रुतम् ।
व्रजामः स इमान्पाशांश्छित्त्वाऽस्मान् मोचयिष्यति ॥६६॥
इत्युक्त्वा सोऽनुगैः साकं गत्वा तैर्जालकर्षिभिः ।
मूषकस्य बिलद्वारं प्राप्याकाशादवातरत् ॥६७॥
भो भो हिरण्य निर्याहि चित्रग्रीवोऽहमागतः ।
इत्याजुहाव तं तत्र मूषकं स कपोतराट् ॥६८॥
स श्रुत्वा द्वारमार्गेण दृष्ट्वा तं सागतं तथा ।
सुहृदं निर्ययावाशुस्तस्माच्छतमुखाद् बिलात् ॥६९॥
१ पञ्चतन्त्रस्य मित्रसम्प्राप्तिप्रकरणस्य मूलकथा। यथा—
असाधना वित्तहीना बुद्धिमन्तः सुहृत्तमाः।
साधयन्त्याशु कार्याणि काककूर्ममृगाखुवत् ॥
इत्येषा कथात्र वर्णिता॥