कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)
Kathasaritsagara Part 2 (Lambaka 6–18)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)
पृष्ठ 835, कुल 1079 में से
संदर्भ में पढ़ें७८८ कथासरित्सागर
उपाययौ च तं सिंहं सह काकेन तं स ।
ततः काकोऽब्रवीद्देव स्वायत्तं भुङ्क्ष्व मामिमम् ॥१५७॥
किं त्वया स्वल्पकायेनेत्युक्ते सिंहेन जम्बुकः ।
मां भुङ्क्ष्वेत्यवदत् तं स तथैव निराकरोत् ॥१५८॥
द्वीपी तमब्रवीद्देव मां भुङ्क्ष्वेति तमप्यसौ ।
मामुङ्क्त हरिरुष्ट्रोऽथ बभाषे भुङ्क्ष्व मामिति ॥१५९॥
व्याक्छलेन स तेनैव हत्वा कृत्वा च खण्डशः ।
उष्ट्रस्तैर्भक्षितः सर्वैः ससिंहैर्व्यासादिभिः ॥१६०॥
एवं केनापि पिशुनेनैष पिङ्गलको मयि ।
परितोऽकारण राजा प्रमाणमधुना विधिः ॥१६१॥
गृध्रोऽपि हि वरं राजा सेव्यो हंसपरिच्छदः ।
न गृध्रपरिवारस्तु हंसोऽपि किमुतापरः ॥१६२॥
एतत् सञ्जीवकच्छ्रुत्वाऽब्रवीद् दमनकोऽनृजुः १।
धर्मेण साध्यते सर्वं शृणु वक्ष्यत्र ते कथाम् ॥१६३॥
टिट्टिभदम्पतीकथा
कोऽप्यासीट्टिट्टिभः पक्षी भार्यया वारिधेस्तटे ।
धृतगर्भा सती भार्या टिट्टिभी निजगाद तम् ॥१६४॥
एहि क्वाप्यन्यतो यावः प्रसूताया ममेह हि ।
हरेदपत्यानम्भोधिः कदाचिदयमूर्म्मिभिः ॥१६५॥
एतद् भार्यावचः श्रुत्वा टिट्टिभः स जगाद ताम् ।
न शक्नोति मया साकं विरोधं कर्तुमम्बुधिः ॥१६६॥
तच्छ्रुत्वा टिट्टिभी प्राह गर्वं का ते तुलाम्बुना ।
हितोपदेशोऽनुष्ठेयो विनाशः प्राप्यतेऽन्यथा ॥१६७॥
कूर्महंसकथा
तथा च कम्बुग्रीवाख्यः कूर्मः क्वापि सरस्यभूत् ।
तस्यास्तां सुहृदौ हंसौ नाम्ना विकटसङ्कटौ ॥१६८॥
१ बुद्धिः।