सामग्री पर जाएँ
सर्वकोश
कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

Kathasaritsagara Part 2 (Lambaka 6–18)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)

DevanagariHindipublished1,079 पृष्ठ

पृष्ठ 831, कुल 1079 में से

संदर्भ में पढ़ें
पृष्ठ 831

७८४ कथासरित्सागर
अपीतपूर्व पास्यामि राजासृक्¹ तत्प्रसीद मे।
एहीह वस्तुमिति तामवादीत्सोऽपि टीटिभः ॥१२९॥
ततोऽनुरोधादाह स्म सा त यद्येवमास्स्व तत्।
किं त्वस्य राज्ञो नाकाले दंशो देयस्त्वया सखि ॥१३०॥
दयोऽस्य दंशः सुप्तस्य त्रासक्तस्य वा लघु।
तच्छ्रुत्वा टीटिभः सोऽत्र तथेत्युक्त्वा व्यतिष्ठत ॥ १३१॥
नक्तं शय्याश्रितं तं च नृपमाशु ददंश सः।
उत्तस्थौ च ततो राजा 'हा दष्टो स्मीति' स ब्रुवन् ॥१३२॥
ततः पलायिते तस्मिंस्त्वरितं मत्कुणे शठे।
विचित्य राजभृत्यैः सा लब्ध्वा यूका व्यपाद्यत ॥१३३॥
एवं टीटिभसम्पर्कद्विष्टा मन्दविसर्पिणी।
तत्सञ्जीवकसङ्गस्ते न शिवाय भविष्यति ॥१३४॥
न मे प्रत्येषि चेत्तत्त्वं स्वयं द्रक्ष्यस्युपागतम्।
शिरो धुनन् दर्पेण शृङ्गयोः क्षुण्णशातयोः ॥१३५॥
इत्युक्त्वा विकृतिं तन नीतो दमनकेन सः।
सिंहः पिङ्गलकश्चक्रे वध्यं सञ्जीवकं हृदि ॥१३६॥
लब्ध्वा तस्याशयं स्वैरं क्षणाद्दमनकस्ततः।
तस्य सञ्जीवकस्यागात् स विषण्ण इवान्तिकम् ॥१३७॥
किमीदृगसि किं मित्र शरीरं कुशलं सखे।
इति पृष्टश्च तेनात्र कृपणं स जगाद तम् ॥१३८॥
किं सेवकस्य कुशलं कश्च राज्ञां सदा प्रियः।
कोऽर्थी न लाघवं यात कः कालस्य न गोचरः ॥१३९॥
इत्युक्तवन्तं पप्रच्छ तं म सञ्जीवकः पुनः।
विमुद्विग्न इव त्वं कथ्यतामोग्यतामिति ॥१४०॥
ततो दमनकोऽवादीच्छृणु प्रीत्या वदामि ते।
मृगराजो विरुद्धोऽसौ जात पिङ्गलकोऽद्य ते ॥१४१॥
निरपगोऽस्थिरस्नेहो हत्वा त्वां भोक्तुमिच्छति।
हृद्यं परिच्छिदं चास्य पश्यामि प्रतनं सदा ॥१४२॥
१ रक्तम्।