कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)
Kathasaritsagara Part 2 (Lambaka 6–18)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)
पृष्ठ 829, कुल 1079 में से
संदर्भ में पढ़ें४८२ कथासरित्सागर
एतच्छ्रुत्वा दमनकः प्राह मा स्मैवमादिथः।
यस्तुष्ट्यै क्रियते राज्ञा न तदुच्छ्रीः प्रसर्पति ॥११७॥
द्वयोर्दत्तपदा सा च तयोरुच्छ्रितयोश्चला¹।
न शक्नोति स्थिरं स्थातुं ध्रुवमेकं विमुञ्चति ॥११८॥
प्रभुश्च यो हितं दृष्ट्वा सेवेत चाहितं सदा।
स वर्जनीयो विद्वद्भिर्भवेद्वैद्यैर्दुष्टातुरो यथा ॥११९॥
अप्रियस्य प्रथमतः परिणामे हितस्य च।
वक्ता श्रोता च यत्र स्यात्तत्र श्रीः कुरुते पदम्² ॥१२०॥
न शृणोति सतां मन्त्रमसतां च शृणोति यः।
अचिरेण स सम्प्राप्य विपदं परितप्यते ॥१२१॥
तदस्मिन्सुदृशि कः स्नेहस्तव देव किमस्य वा।
दुष्टतोऽभयदानं तच्छरणागतता च का ॥१२२॥
किं चैतस्य भवत्पार्श्वे नित्यसन्निहितस्य गोः।
एव कीटाः प्रजायन्ते ये तन्मूत्रपुरीषयोः ॥१२३॥
ते दंशिष्यन्ति मत्तेमदन्ताघातव्रणावृते।
शरीरे भवतः किं न मृतः स्याद्युक्तितो वधः ॥१२४॥
दुर्मन्त्रकृत् स्वयं पापं विपश्चिन्ना करोति यत्।
उत्पद्यते स तत्सङ्गादत्र च श्रूयतां यथा ॥१२५॥
मन्दविसर्पिण्या यूकाया मत्कुणस्य च कथा
राज्ञः कस्यापि शयने चिरमासीदलक्षिता।
यूका कुतश्चिदागत्य नाम्ना मन्दविसर्पिणी ॥१२६॥
अकस्माच्चात्र चोपेक्ष्य कृतोऽपि पवनैरितः।
विवेश शयनीयं तट्टिट्टिभो नाम मत्कुणः ॥१२७॥
मन्निवासमिमं कस्मादागतस्त्वं प्रजान्यतः।
इति मन्दविसर्पिण्या स दृष्ट्वा जगदे तया ॥१२८॥
१ अत्युच्छ्रिते मन्त्रिणि पार्थिवे च विष्टभ्य पादावुपतिष्ठते श्रीः।
सा स्त्री स्वभावादसहाभरस्य तयोर्द्वयोरेकतरं जहाति॥
—मुद्राराक्षसे।
२ अप्रियस्य च पथ्यस्य श्रोता वक्ता च दुर्लभः।
—इति मारिचिरमुत्सस्नेवेः।