सामग्री पर जाएँ
सर्वकोश
कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

Kathasaritsagara Part 2 (Lambaka 6–18)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)

DevanagariHindipublished1,079 पृष्ठ

पृष्ठ 827, कुल 1079 में से

संदर्भ में पढ़ें
पृष्ठ 827

४८० कथासरित्सागर

प्रतिसिंहं स कोपेन तद्वधाय मृगाधिपः ।
आत्मानमक्षिपत्कूपे मूढोऽत्र व्यपादि च ॥१०५॥
शशः स प्रज्ञयोत्तीर्य मृत्योरुत्तार्य चाखिलान् ।
मृगान् गत्वा तदाख्याय स्ववृत्तं ताननन्दयत् ॥१०६॥
एवं प्रज्ञैव परमं बलं न तु पराक्रमः ।
यत्प्रभावेन निहतः शशकेनापि केसरी¹ ॥१०७॥
तदहं साधयाम्येव प्रज्ञया स्वमभीप्सितम् ।
एवं दमनकेनोक्ते तूष्णीं करटकोऽभवत् ॥१०८॥
ततो दमनकश्चापि तस्य पिङ्गलकस्य सः ।
सिंहस्य स्वप्रभोरासीदन्तिके दुर्मना इव ॥१०९॥
पृष्टश्च कारणं तेन तमुवाच जनान्तिकम् ।
बुद्ध्वा न युज्यते तूष्णीं स्थातुं चेन्न वदाम्यतः ॥११०॥
अनियुक्तोऽपि च ब्रूयाद्यदीच्छेत् स्वामिनो हितम् ।
तद्विहायायमागुण्ठिं मद्विज्ञप्तिमिमां शृणु ॥१११॥
भूप सञ्जीवकोऽयं त्वां हत्वा राज्यं चिकीर्षति ।
मन्त्रिणा हि सतानेन त्वं भीरुरिति निश्चितः ॥११२॥
धुनोति त्वां जिघांसुश्च शृङ्गाग्रमुग्रं निजायुधम् ।
निर्मर्यादो जयेष्वस्य मयि राज्ञि तृणाशने ॥११३॥
तदेतं हन्मो युष्मासु मृगेन्द्र मांसभोजनम् ।
आश्वास्योपजपन्त्येवं प्राणिनश्च वने वने ॥११४॥
तदेतं चिन्तय नृप नास्त्यस्मिन्सति शर्म ते ।
एवं दमनकेनोक्ते स तं पिङ्गलकोऽभ्यधात् ॥११५॥
बलीवर्दो वराकोऽयं किं कुर्यात्तृणभुङ्मम ।
दत्ताभयं कथं हन्यामहं च शरणागतम् ॥११६॥


[FN1] १ पञ्चतन्त्रहितोपदेशयोरियं कथा—
[FN2] बुद्धिर्यस्य बलं तस्य निर्बुद्धेस्तु कुतो बलम् ।
[FN3] पश्य सिंहो मदोन्मत्तः शशकेन निपातितः ॥
[FN4] —इति शीर्षकयोल्लिखिताऽप्यन्या ।