कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)
Kathasaritsagara Part 2 (Lambaka 6–18)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)
पृष्ठ 823, कुल 1079 में से
संदर्भ में पढ़ें[Page Header]
७७६ कथासरित्सागर
न स शक्नोति किं यस्य प्रज्ञा नापदि हीयते ।
तथा च मकरस्तैतां बकहन्तुः कथां शृणु ॥७८॥
बककर्कटयोः कथा
आसीत् कोऽपि बकः पूर्वं मत्स्याढ्ये सरसि क्वचित् ।
मत्स्यास्तत्र पलायन्त तस्य दृष्टिपथाद्रुमात् ॥७९॥
अप्राप्नुवंश्च मिथ्या तान्स मत्स्यान्ब्रवीद्वकः ।
इहागतो मत्स्यघाती पुरुषः कोऽपि जालबान् ॥८०॥
स जालेनाचिराद्युष्मान् गृहीत्वा विहनिष्यति ।
तत्कुरुध्वं मम वचो विश्वासो वोऽस्ति यन्मयि ॥८१॥
अस्त्येकान्ते सरः स्वच्छमज्ञातमिह धीवरैः ।
एते तत्र निवासाथ नीत्वैकैकं क्षिपामि वः ॥८२॥
तच्छ्रुत्वा समयेरुक्त मत्स्यैस्तैर्जडबुद्धिभिः ।
एव कुरुष्व विवस्ता वय त्वन्मयसिला इति ॥८३॥
ततो बकस्तानेकैक मत्स्यान् नीत्वा शिलातले।
विन्यस्य भक्षयामास स बहून् विप्रलम्भकः ॥८४॥
दृष्ट्वा मीनानमन्तं तं 'मकरस्तत्सरो गतः ।
एको बक स पप्रच्छ नयसि क्व तिमीमिति ॥८५॥
ततस्त स तदेवाह बको मत्स्यानुवाच यत् ।
तेन भीतो भयोऽत्रोचत् स मामपि नयति त्वम् ॥८६॥
सोऽपि तन्मांसगर्धान्धबुद्धिरादाय त बकः ।
उत्पत्य प्रापयति तथावद्यम्यशिलातलम् ॥८७॥
तावत्तज्जग्धमीनास्थिशकला न्यत्र वीक्ष्य सः ।
त बुध्यते स्म मकरो बक विश्वास्य भक्षकम् ॥८८॥
तत शिलातल न्यस्तमात्रस्तस्य स तत्क्षणम् ।
बकस्य मकरो धीमांश्चकर्ताविव्हल शिरः ॥८९॥
गत्वा च शेषमत्स्यानां यथावत् स शशंस तत् ।
तेऽप्याप्यभिननन्दुस्तं तुष्टा प्राणप्रदायिनम् ॥९०॥
[Footnote]
१ हितोपदेशे पञ्चतन्त्रादिषु मकरस्थाने कर्कटस्योल्लेखो दृश्यते। स एव च सङ्गत
प्रतीपते। मकरस्य बकेन मैत्री तयोश्चाहवं च दुर्घटमेव प्रतीपते।