सामग्री पर जाएँ
सर्वकोश
कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

Kathasaritsagara Part 2 (Lambaka 6–18)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)

DevanagariHindipublished1,079 पृष्ठ

पृष्ठ 819, कुल 1079 में से

संदर्भ में पढ़ें
पृष्ठ 819

लक्षितोऽस्म्यमुना तत्किं मत्तस्त्यास्य निगूह्यत।
इत्यालोच्याब्रवीत् स शृणु गोप्यं न तदस्ति मे ॥४९॥
जलपार्श्वगतेनात्र नादोऽपूर्वः श्रुतो मया।
स चास्मदधिकस्योग्रो जाने सत्त्वस्य कस्यचित् ॥५०॥
भार्यं शब्दानुरूपेण प्रायेण प्राणिनां महत्।
प्रजापतिर्विचित्रो हि प्राणिसर्गोऽधिकाधिकः ॥५१॥
येन बहु प्रविष्टेन न शरीरं म मे वनम्।
तस्मादितो मयान्यत्र गन्तव्यं कानने क्वचित् ॥५२॥
इति वादिनमाह स्म सिंहं दमनकोऽथ तम्।
शूरः समित्यतां देव किं वनं त्यक्तुमिच्छसि ॥५३॥
जलेन भज्यते सेतुः स्नेहः कर्णेजपेन तु।
अरक्षणेन मन्त्रश्च शब्दमात्रेण कातरः ॥५४॥
यन्त्रादिहृच्छब्दास्ते ते हि भवन्त्येव भयङ्कराः।
परमार्थमविज्ञाय न भेतव्यमत प्रभो ॥५५॥

भेरीगोमायुकथा

तथा च भेरीगोमायुकथेयं श्रूयतां त्वया।
कोऽपि क्वापि वनोद्देशे गोमायुरनशत्पुरा ॥५६॥
स भक्ष्यार्थी भ्रमन्नुत्तुङ्गां प्राप्य भुवं ध्वनिम्।
गम्भीरमेकतः श्रुत्वा भीतो दृष्टिं ततो ददौ ॥५७॥
तत्रादृष्टचरां भेरीमपश्यत् पतितस्थिताम्।
किमीदृशोऽयं प्राणी स्यात् कोऽप्येवंरूपशब्दकृत् ॥५८॥
इति सञ्चिन्तयन् दृष्ट्वा निस्पन्दां तामुपाययौ।
यावत्पश्यति तावत्स नायं प्राणीत्यबुध्यत ॥५९॥
वातप्रेल्लच्छरस्तम्बहतचर्मपुटोद्भवम् ।
शब्दं निरूप्य तस्यां च स गोमायुर्जहौ भयम् ॥६०॥
स्यात्किञ्चिद्भक्ष्यमत्रान्तरित्युत्पाट्य स पुष्करम्।
प्रविश्य वीक्षते यावत् केवले दारुचर्मणी ॥६१॥
तन्मेव शब्दमात्रेण किं विभ्यति भवादृशाः।
मन्यसे यदि तत्तत्र तद्विज्ञातुं व्रजाम्यहम् ॥६२॥