कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)
Kathasaritsagara Part 2 (Lambaka 6–18)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)
पृष्ठ 803, कुल 1079 में से
संदर्भ में पढ़ें७५६ कथासरित्सागर
मनोरथप्रभे मैवं कृथा भूयो भविष्यति ।
एतेन मुनिपुत्रेण तव कालेन सङ्गम ॥११३॥
एतच्छ्रुत्वा परावृत्य मरणात्सप्रतीक्षिणी ।
स्थितास्मीहैव बद्धाशा शङ्करार्चनतत्परा ॥११४॥
मुनिपुत्रसुहृत्सोऽपि गतो मे क्वाप्यदर्शनम् ।
इति तां वादिनीं विद्याधरीं सोमप्रभोऽभ्यधात् ॥११५॥
स्थितास्येकाकिनी तर्हि क्व सापि सखी क्व ते ।
एतच्छ्रुत्वा तमाह स्म सा विद्याधरकन्यका ॥११६॥
सिंहविक्रम इत्यस्ति नाम्ना विद्याधरेश्वरः ।
तस्यानन्यसमा चास्ति तनया मकरन्दिका ॥११७॥
सा मे सखी प्राणसमा तया सह सुस्थिता ।
तया सखी प्रेषितामद्वार्तां ज्ञातुमिहाद्य मे ॥११८॥
ततो मयापि तत्सख्या समं सा प्रहिता निजा ।
सखी तदन्तिकं तेन स्थितास्म्येकैव सम्प्रति ॥११९॥
एवं वदन्ती गगनादवतीर्णां तदैव ताम् ।
स्वसखीं दर्शयामास तस्मै सोमप्रभाय सा ॥१२०॥
तामथोक्तसखीवार्त्तां पर्णशय्यामकारयत् ।
सोमप्रभस्य तद्बाह्वोरपि वासमदापयत् ॥१२१॥
ततो नीत्वा निशां सर्वे तत्र ते प्रातरुत्थिता ।
व्योम्नोऽवतीर्णं ददृशुर्विद्याधरमुपागतम् ॥१२२॥
स च विद्याधरो देवजयो नाम कृतानतिः ।
मनोरथप्रभामेवमुपविश्य जगाद ताम् ॥१२३॥
मनोरथप्रभे राजा वक्ति त्वां सिंहविक्रमः ।
यावत्तव न निष्पन्नो वरस्तावन्न मत्सुता ॥१२४॥
विवाहमिच्छति स्नेहात्त्वत्सखी मकरन्दिका ।
तदेतां बोधयागत्य येनोद्वाहे प्रवर्त्तते ॥१२५॥
एतच्छ्रुत्वा सखीस्नेहात् विद्याधरकन्यकाम् ।
गन्तुं प्रवृत्तां वक्ति स्म राजा सोमप्रभोऽथ सः ॥१२६॥
द्रष्टुं विद्याधरं लोकमनघे कौतुकं मम ।
तत्तत्र नय मामद्यो त्सवोऽसावथ तिष्ठतु ॥१२७॥