सामग्री पर जाएँ
सर्वकोश
कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)

DevanagariHindipublished1,079 पृष्ठ

पृष्ठ 79, कुल 1079 में से

संदर्भ में पढ़ें
पृष्ठ 79

५८ कथासरित्सागर
आनीतेव च सा मेऽत्र कण्ठाश्लेषमुपागमत्।
एकवीरो हि नारीणामतिभूमिं गतः स्मरः ॥१०४॥
एवं दिने दिने स्वैरमागत्यात्र पितुर्गृहात् ।
अरस्त बन्धुदत्ता सा मया सह सखीगृहे ॥१०५॥
एकदा तां निजगृहं नेतुं तत्र चिरस्थिताम् ।
आगतः स पतिम्मन्या मधुरातो महावणिक् ॥१०६॥
तत पित्राभ्यनुज्ञाता पत्या तेन निनीषिता ।
रहस्यज्ञां द्वितीयां सा बन्धुदत्ताऽब्रवीत् सखीम् ॥१०७॥
निश्चितं सखि नेतव्या भर्त्राहं मधुरां पुरीम् ।
न च जीवाम्यहं तत्र सोमस्वामिबिनाकृता ॥१०८॥
तदत्र कोऽप्युपायो मे कथ्यतामुचिता तथा।
सखी सुलशया नाम योगिनी तां जगाद सा ॥१०९॥
द्वौ स्तो मन्त्रप्रयोगौ मे ययोरेकेन सूत्रके ।
कण्ठबद्धे क्षणादेव मानुषो मर्कटो भवेत् ॥११०॥
द्वितीयेन च मुक्तेऽस्मिन्सूत्रके सैष मानुषः ।
पुनर्भवत्कपित्वे न नास्य प्रज्ञा विलुप्यते ॥१११॥
यद्यदीच्छति सुश्रोणि सोमस्वामी प्रियः स सं ।
तवैतं मर्कटंक्षिप्रं सम्प्रत्येव करोम्यहम् ॥११२॥
तत क्रीडानिभादेतं गृहीत्वा मधुरां व्रज ।
[L21: मन्त्रयुक्तिद्वयं चैतद् भवतीं शिक्षयाम्यहम् ॥११३॥
संविधास्यसि येनैतं पार्श्वस्थं मर्कटाकृतिम् ।
रहःस्थाने च पुरुषं प्रियं सम्पादयिष्यसि ॥११४॥
एवमुक्ता तया सख्या बन्धुदत्ता तथैव सा ।
रहस्यानय्य सस्नेहं सर्वर्थं मामबोधयत् ॥११५॥
कृतानुज्ञं च मां बद्धमन्त्रसूत्रं गले क्षणात् ।
तत्सखी सा सुलशया व्यधाम्मर्कटपोतकम् ॥११६॥
तद्रूपञ्च स्वभर्त्रे सा बन्धुदत्तोपनीय माम् ।
सख्या मह्यं विनोदाय दत्तोऽसावित्यदर्शयत् ॥११७॥
अतुष्यत् स च मां दृष्ट्वा क्रीडनीयं तदङ्गजम् ।
अहञ्च कपिरेवासं प्राशोऽपि व्यक्तवागपि ॥११८॥