सामग्री पर जाएँ
सर्वकोश
कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

Kathasaritsagara Part 2 (Lambaka 6–18)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)

DevanagariHindipublished1,079 पृष्ठ

पृष्ठ 787, कुल 1079 में से

संदर्भ में पढ़ें
पृष्ठ 787

कथासरित्सागर
इति प्रवीरे सुभग च सल्पतौ विवेकिनीनामपि दैव योषिताम् ।
चलं मनो धावति यत्र कुत्रचिद्विदुश्चसत्त्वा विरला पुनः स्त्रियः ॥१४०॥
इति मरुभूतिनिगदितामाकर्ण्य कथां स वत्सराजसुतः ।
नरवाहनदत्तस्तां सुखसुप्तो नीतवान् रजनीम् ॥१४१॥
इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे शक्तियशोलम्बके
द्वितीयस्तरङ्गः ।
तृतीयस्तरङ्गः
नरवाहनदत्तकथा (पूर्वानुवृत्ता)
ततः प्रातः कृतावश्यकरायं स सचिवैः सह ।
नरवाहनदत्त स्वमुद्यानं विहरन्ययौ ॥१॥
तत्रस्थश्च प्रभापुञ्जमादौ व्योम्नोऽप्यनन्तरम् ।
ततो विद्याधरीवल्लीरवत्तीर्णा ददर्श सः ॥२॥
तासां मध्य च दीप्तानां ददर्शेकां स कन्यकाम् ।
ताराणामिव शीतांशुलेखां लोचनहारिणीम् ॥३॥
विकसत्पद्मवदनां लोललोचनषट्पदाम् ।
सलीरुहसगमनां बह्दुत्पलसौरभाम् ॥४॥
तरङ्गहारित्रिवलीस्त्रासन्नतमध्यमाम् ।
साक्षादिव स्मरोद्यानवापीशोभाभिदेवताम् ॥५॥
स्मरसञ्जीवनीं तां च दृष्ट्वा सोत्कलिकामतः ।
चान्द्रीं मूर्तिमिवाम्भोधिश्शुशुभे स नृपात्मजः ॥६॥
अहो सुन्दरनिर्माणवैचित्री वाप्यसौ विधेः ।
इति शंसन् स सचिवः सहितस्तामुपाययौ ॥७॥
तिर्यक्प्रमार्द्या दृष्ट्या पश्यन्ती सा च स क्रमात् ।
पप्रच्छ का त्वं कल्याणि किमिहागमनं च ते ॥८॥
तच्छ्रुत्वा साऽब्रवीत्कन्या शृणुतेतद्वदामि यः ।
अशितघनाख्यः कौशाम्ब्याभागमनम्
अस्ति काञ्चनशृङ्गाख्यं पुरं हैमं हिमाचले ॥९॥
तत्रास्ति नाम्ना स्फटिकयशा विद्याधरेश्वरः ।
धार्मिक कृपनानाधशरण्यामृतबरसम् ॥१०॥