कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)
पृष्ठ 77, कुल 1079 में से
संदर्भ में पढ़ें५६ कथासरित्सागर
मानुषो मर्कटीभूतो विप्रोऽहं मां समुद्धर ।
कथयिष्यामि ते साद्यो स्ववृत्तान्तं ततोऽखिलम् ॥९०
एतच्छ्रुत्वैव साश्चर्यो मृत्तिकामपनीय स ।
भूमेर्निश्चयदत्तस्तमुज्जहाराथ मर्कटम् ॥९१
उद्धृत पादपतितस्तं भूयोऽपि स मर्कटः ।
उवाच दत्ता प्राणा मे कृच्छ्रादुद्धरता त्वया ॥९२
तदेहि यावच्छ्रान्तस्त्वमुपयुङ्क्ष्व फलाम्बुनी ।
स्वप्रसादादहं चापि करिष्ये पारणं चिरात् ॥९३
इत्युक्त्वा तमनेषीत्स दूरं गिरिनदीतटम् ।
कपि स्वाधीनसुस्वादुफलसञ्छायपादपम् ॥९४
तत्र स्नात्वापभुक्ताम्बुफलः स कृतपारणम् ।
कपिं निश्चयदस्तस्तं प्रत्यागम्य ततोऽब्रवीत् ॥९५
कथं त्वं मर्कटीभूतो मानुषोऽप्युच्यतामिति ।
ततः स मर्कटोऽवादीच्छृण्विदानीं वदाम्यहम् ॥९६
वानररूपिणः सोमस्वामिब्राह्मणस्य कथा
चन्द्रस्वामीति नाम्नास्ति वाराणस्यां द्विजोत्तमः ।
तस्य पत्न्यां सुवृत्तायां जातोऽस्म्येथ सुत सखे ॥९७
सोमस्वामीति पित्रा च कृतनामा क्रमादहम् ।
[L20: प्राप्तो मदनव्यालगज मर्दनिरङ्कुशम् ॥९८
सो मां कदाचिदद्राक्षीद्वारादूर्ध्वावातायनाग्रगा ।
श्रीगर्भाख्यस्य वणिजस्तत्पुरीवासिनः सुता ॥९९
तरुणी बन्धुदत्ताख्या माथुरस्य वणिक्पतेः ।
भार्या वराहदत्तस्य पितुर्गेहमवस्थिता ॥१००
सा मदालोकसञ्जातमन्मथान्विष्य नाम मे ।
वयस्यां प्राहिणोदाप्तां मह्यं मत्सङ्गमाथिनी ॥१०१
सा तद्वयस्या कामान्धामुपगम्य ममान्तिकम् ।
आख्याततदभिप्राया मामनैषीन्निजं गृहम् ॥१०२
तत्र मां स्थापयित्वा च गत्वा गुप्तं तदैव सा ।
तां बन्धुदत्तामानैषीदौत्सुक्यागणितत्रपाम् १॥१०३
१ औत्सुक्येनकामावेशतया न गणिता त्रपा यया सा।