सामग्री पर जाएँ
सर्वकोश
कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

Kathasaritsagara Part 2 (Lambaka 6–18)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)

DevanagariHindipublished1,079 पृष्ठ

पृष्ठ 755, कुल 1079 में से

संदर्भ में पढ़ें
पृष्ठ 755

७०८ कथासरित्सागर
तस्या रूपेण नृत्तेन गीतेन च हृतात्मनः ।
वणिजोऽथ स्थितस्याथ तस्य मासद्वयं ययौ ॥८८॥
तावच्च तस्य सुन्दर्ये कोट्यो द्वे स ददौ क्रमात् ।
अथोपैरार्यदत्ताख्यः सखा स्वरमुवाच तम् ॥८९॥
सख किं कुट्टनीशिक्षा सा यत्नोपार्जितापि ते ।
कातरस्यास्त्रविद्येव निष्फलावसरे गता ॥९०॥
वेश्याप्रमणि सद्भावो यदस्मिन् दृश्यते त्वया ।
सत्यं भवति किं जातु जलं मरुमरीचिषु ॥९१॥
तत्सर्वं क्षीयते यावदिहैव न धनं तव ।
तावद्ब्रजामो बुद्ध्वा हि क्षमेतैतत्पिता न ते ॥९२॥
इत्युक्तस्तेन मित्रेण वणिक्पुत्रो जगाद सः ।
सत्यं न वेश्यास्वाश्वासः सुन्दरी तु न तादृशी ॥९३॥
क्षणं हि मामपश्यन्ती मुञ्चेत् प्राणानसौ सखे ।
तद्गत्वा बोधयस्वैतां गन्तव्यं यदि सर्वथा ॥९४॥
एवमुक्तः स तेनार्यदत्तस्तस्यैव सन्निधौ ।
मातुर्मकरदंष्ट्रायाश्च सुन्दरीमवदत्ततः ॥९५॥
यन्न तावत्सामान्या प्रीतिरीश्वरकर्मणि ।
गन्तव्यं चाधुनावश्यं स्वर्णद्वीपं वणिज्यया ॥९६॥
ततः प्राप्स्यरयं लक्ष्मीं ययागत्य त्वदन्तिके ।
यावत्कालं सुखं स्थास्यत्यनुमन्यस्व तत्सखि ॥९७॥
तच्छ्रुत्वा साधुममना पश्यन्तीश्वरवन्ममः ।
मुखं कृतविषादा सा सुन्दरी च तमभ्यधात् ॥९८॥
यूयं जानीत किमयं वक्ष्यन्तमन्वेक्ष्य कः ।
कस्य प्रयति सद्यत्नं यदिभर्ता विधिर्मम ॥९९॥
तच्छ्रुत्वोवाच माता तां मा क्षुभं धृतिरस्तु ते ।
एप्यत्येव प्रियोऽय ते सिद्धार्थस्त्वां न हास्यति ॥१००॥
इति माता विभाव्यास्य कृतसंवित्त्या गृह।
मार्गप्रि गुप्तमस्मन् कूपे जासमकारयत् ॥१ १॥


१ भीतोरित्यर्थः ।