कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)
पृष्ठ 75, कुल 1079 में से
संदर्भ में पढ़ें५४ कथासरित्सागर
मा वधीस्त्वं महासत्त्व ! स्त्रियं मां कृपणामिमाम् ।
इदानीं शरणं त्वं मे मन्त्रपाठादि संहर ॥७५॥
रक्ष मां वेद्म्यहं सर्वमीप्सितं साधयामि ते ।
अनुरागपरा यत्र तत्र त्वां प्रापयाम्यहम् ॥७६॥
इति सप्रत्ययं प्रोक्तस्तया धीरस्तथेति सः ।
चक्रे निश्चयदत्तोऽत्र मन्त्रपाठादिसंहृतिम् ॥७७॥
ततः स तस्या यक्षिण्याः स्कन्धमारुह्य तद्गिरा ।
नीयमानस्तया व्योम्ना प्रतस्थे तां प्रियां प्रति ॥७८॥
प्रभातायां च रजनौ प्राप्यैकं गिरिकाननम् ।
मत्वा निश्चयवन्तं तं गुह्यकी सा व्यजिज्ञपत् ॥७९॥
सूर्योदयेऽधुना गन्तुं शक्तिर्नास्ति ममोपरि ।
तदस्मिन् कानने कान्ते गमयेदं दिनं प्रभो ॥८०॥
फलानि भुङ्क्ष्व स्वादूनि निर्झराम्बु शुभं पिब ।
अहं यामि निजं स्थानमप्यामि च निशागमे ॥८१॥
नेष्यामि च तदैव त्वाममरागपरान्तिकम् ।
मौलिमालां हिमगिरेर्नगरीं पुष्करावतीम् ॥८२॥
इत्युक्त्वा तदनुज्ञाता स्कन्धात्तत्रावतार्य तम् ।
यक्षिणी पुनरागास्तु सत्यसन्धा जगाम सा ॥८३॥
ततो निश्चयवत्तोऽस्यां गतायामक्षतात सः ।
अगाधमन्तं सविषं स्वच्छशीतं बहिः सरः ॥८४॥
रागिन् स्त्रीचित्तमतावुगिरयर्कैण निदर्शनम् ।
प्रसारितकरजब प्रकटीकृत्य दर्शितम् ॥८५॥
स तद् विपाक्त गन्धेन बुद्ध्वा मानुपकृन्त्यतः ।
त्यक्त्वान्भोऽध्र्थी तृषातः सन्विक्षय तत्राश्रयद्व् गिरेः ॥८६॥
भ्रमधूतभ्रूमायं पद्मरागमणी इव ।
स्फुरन्तौ द्राबपश्यञ्च मुखं तां निश्चवान् च ॥८७॥
अपास्तमूसिबन्धास्य जीवतो मर्कटस्य सः ।
गिरो वदन्तं ते पास्य पद्मरागाविवादिनी ॥८८॥
ततो विस्मयते यावत्किमेतदिति चिन्तयन् ।
तावन्मनुष्यवाचाभो मकटस्तमभाषत ॥८९॥