कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)
Kathasaritsagara Part 2 (Lambaka 6–18)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)
पृष्ठ 747, कुल 1079 में से
संदर्भ में पढ़ेंशुभदत्त न वत्सि त्वं क्षिप हस्तं घटान्तरे ।
यथेष्टं लप्स्यसे सर्वं घटः कामप्रदो ह्यसौ ॥३३॥
तच्छ्रुत्वा प्रक्षिपत्यन्तं पाणिं यावद् घटान्तरे ।
तावदाहारपानादि कामितं दृष्टवानसौ ॥३४॥
१
शुभदत्तो ददौ तेभ्यो बुभुजे च स्वयं सह ॥३५॥
एवं परिचरन् यक्षान् भक्त्या भीत्या च सोऽन्वहम् ।
तस्थौ कुटुम्बचिन्तान्नः शुभदत्तस्तदन्तिके ॥३६॥
तत्कुटुम्बं च क्षुत्तार्तं स्वप्नादेशेन गुह्यकैः ।
आश्वासितं तत्प्रसादान्नभोते स्म ततश्च सः ॥३७॥
मासमात्रेण यक्षास्ते शुभदत्तं तमब्रुवन् ।
तुष्टाः स्मस्तेऽनया भक्त्या ब्रूहि किञ्चिद्ददाम ते ॥३८॥
तच्छ्रुत्वा स जगावैतांस्तुष्ट्रा स्वं यदि सत्यतः ।
एष भद्रघटस्ते मे युष्माभिर्दीयतामिति ॥३९॥
ततस्तमूचुर्यक्षास्ते नैनं शक्ष्यसि रक्षितुम् ।
भग्नः पलायते ह्येष तद्गृणीष्वापरं वरम् ॥४०॥
इत्युक्तोऽपि स यक्षैस्तैः शुभदत्तोऽपरं यदा ।
वरं नैच्छत्तदा तस्मै ते तं भद्रघटं ददुः ॥४१॥
ततः प्रणम्य तान् हृष्टो घटमादाय तं जगात् ।
गृहं स शुभदत्तः स्वं प्रापं तन्वितबान्धवः ॥४२॥
तत्र तस्माद्घटात्सर्व्वा भोज्यादि निवेश्य तत् ।
गुप्यर्थमश्मभाण्डेषु सोऽभुङ्क्त स्वजनैः सह ॥४३॥
भारमुक्तो भजत्भोगान्वानमत्तोऽथ जातु सः ।
कुतस्त्वैषा भोगश्रीरित्युपृच्छ्यत बन्धुभिः ॥४४॥
स व्यक्तमब्रुवन् मूढो गर्वोपस्तितकामदम् ।
गृहीत्वा घटकं स्कन्धे प्रारेभे यत् नतितुम् ॥४५॥
नत्यतस्तस्य च स्कन्धान्मदोद्रक्तस्खलद्गतः ।
स भद्रघटका यातः पतित्वा भुवि खण्डशः ॥४६॥
१ एतत्पद्यार्धं मूलपुस्तके त्रुटितमस्ति ।
२ मद्यमदमत्ततया स्खलितचरणस्येत्यर्थः ।