सामग्री पर जाएँ
सर्वकोश
कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

Kathasaritsagara Part 2 (Lambaka 6–18)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)

DevanagariHindipublished1,079 पृष्ठ

पृष्ठ 735, कुल 1079 में से

संदर्भ में पढ़ें
पृष्ठ 735

१८८ कथासरित्सागर
प्राप्तं तं तत्र बुद्ध्वा सा श्रुताश्वजर्यरथस्वना ॥
दमयन्ती जहर्षान्तः सम्भावितनलागमा ॥ ३९० ॥
विससर्जाथ सा तन्मन्वेष्टुं चेटिकां निजाम् ।
सा चान्विष्यागता चेटी तामुवाच प्रियोत्सुकाम् ॥ ३९१ ॥
देवि गत्वा मयान्विष्टमेष यः कोशलेश्वरः ।
स्वयंवरप्रवादं तं मिथ्या श्रुत्वा किलागतः ॥ ३९२ ॥
आनीतो रथवाहेन सूदेन ह्रस्वबाहुना ।
एकेनैव दिनेनाश्व रथविज्ञानशालिना ॥ ३९३ ॥
स च तत्सूपशालायां गत्वा सूदो मयेक्षितः ।
कृप्णवर्णो निरुपमश्च प्रभावः कोऽपि तस्य तु ॥ ३९४ ॥
विक्षिप्तमेव यत्तस्य पानीयं परपूरितम् ।
काष्ठान्यनर्पिताग्नीनि स्वयं प्रज्वलितानि च ॥ ३९५ ॥
क्षणाच्च भोजनैस्तैस्तन्निष्पन्नं दिव्यमेव च ।
एतद्बुद्ध्वा महाश्चर्यं ततस्त्वहमिहागता ॥ ३९६ ॥
एतच्चेटीमुखाच्छ्रुत्वा दमयन्ती व्यचिन्तयत् ।
वश्याग्निवरुणः सूदो रथविद्यारहस्यवित् ॥ ३९७ ॥
आर्यपुत्रो भवेत्येष गतो वैरुप्यमन्यथा ।
जाने मद्धिप्रयोगात्तं जिज्ञासुरुह रूप्यमूमू ॥ ३९८ ॥
इति सङ्कल्प्य युक्त्वा स्त्रीं राहू चेट्या तयैव सा ।
तस्यान्तिकं दर्शयितुं प्राहिणोद्दारकावुभौ ॥ ३९९ ॥
स तौ निजशिशू बुद्ध्वा कृत्वा धाङ्क तरुश्चिरम् ।
गलद्वाराप्रवाहेण तूष्णीमरुददक्षुणा ॥ ४०० ॥
ईदृशावेव मे बालो मातामहगृहे स्थितौ ।
जातं मे तत्स्मृतैर्वृत्तभित्युवाच स चेटिकाम् ॥ ४०१ ॥
सा धिच्या सहो गत्वा चेटी सर्वं शशंस तत् ।
दमयन्त्यै ततः सापि जातास्था सुतरामभूत् ॥ ४०२ ॥
अपरेद्युस्ततः सा प्रात स्वचेटीमादिदेश सा ।
गत्वा तमृतुपर्णस्य सूतं मद्वचनाद्वद ॥ ४०३ ॥
श्रुतं मया यदुद्भ्रान्तो सूदो नान्यतोऽस्ति सूपकृत् ।
तन्ममार्थ स्वयागत्य व्यञ्जनं साध्यतामिति ॥ ४०४ ॥