कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)
Kathasaritsagara Part 2 (Lambaka 6–18)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)
पृष्ठ 711, कुल 1079 में से
संदर्भ में पढ़ें३६४ कथासरित्सागर
पुरे त्रिभुवनाख्येऽहं राजा त्रिभुवनाभिधः।
तत्र मे सुचिरं सेवामेकः पाशुपतो व्यधात् ॥२१२॥
।
॥२१३॥
स पृष्टः कारणं स्वैरं बिलखङ्गप्रसाधने।
सहायं प्रार्थयत मां प्रतिपन्नं मया च तत् ॥२१४॥
ततो मया सहारण्यं गत्वा होमादिना निधि।
प्रकटीकृत्य विवरं स मां पाशुपतोऽभ्यधात् ॥२१५॥
वीर प्रविश पूर्वं त्वं खड्गं प्राप्य च मामपि।
प्रवेशयेस्त्वं निर्गत्य समयं चात्र मे कुरु ॥२१६॥
इत्युक्तस्तेन तस्याहं कृत्वा समयमाशु तत्।
प्रविश्य विवरं प्रापमेकं रत्नमयं गृहम् ॥२१७॥
ततो निर्गत्य मां चैका प्रधानासुरकन्यका।
अन्तः प्रावेशयत्प्रेम्णा प्रादात्खड्गं च सात्र म् ॥२१८॥
सर्वसिद्धिप्रदमिमं खड्गं खगतिदायिनम्।
रक्षेत्युक्तवत्याहं तया तत्रावस सह ॥२१९॥
स्मृत्वाथ खड्गहस्तोऽहं निर्गत्य विवरेण तम्।
प्रावेशयं पाशुपतं तस्मिन्नसुरमन्दिरे ॥२२०॥
सप्ताहमभव्या साकं तया सपरिवारया।
सोऽपि द्वितीयया साकमासीदसुरकन्यया ॥२२१॥
एकदा पानमत्तस्य स मे पाशुपतःक्रमात्।
हृत्वा पार्श्वस्थितं खड्गमकरोन्निजहस्तगम् ॥२२२॥
तस्मिन् हस्तस्थिते लब्धमहासिद्धिः स पाण्डितः।
मामादायैव निष्कास्य विवरात् प्राक्षिपद्बहिः ॥२२३॥
ततो द्वावशवर्षाणि मया बिलमुखेषु सः।
गवेषितः कदाचित् निर्गतं प्राप्नुयामिति ॥२२४॥
सोऽयमद्येह मे दृष्टिपथे निपतितः शठः।
मदीययैतया साकं श्रीलक्षसुरकन्यया ॥२२५॥
इति यावत्त्रिभुवन स राजा वेत्रि ब्रक्ति माम्।
तावत्पानमदाभिद्रामगात्पाशुपतोऽत्र सः ॥२२६॥