कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)
Kathasaritsagara Part 2 (Lambaka 6–18)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)
पृष्ठ 693, कुल 1079 में से
संदर्भ में पढ़ें६४४ कथासरित्सागर
चिरयस्यथ किं देव इति तत्र च मातरः ।
नारायणीमथापृच्छन् सा जहासा शु नाब्रवीत् ॥७८॥
अतिनिर्बन्धपृष्टा च ताभिस्सा प्रत्युवाच सा ।
लज्जावहं यदप्येतत् सख्यस्तदपि वच्म्यहम् ॥७९॥
अस्ताह सुरसेनाख्यो राजा सुरपुरे पुरे ।
तस्य विद्याधरी नाम ख्यातरूपास्ति चात्मजा ॥८०॥
प्रदमायाश्च तेनास्या राज्ञा रूपसमं श्रुतं ।
विमलाख्यस्य तनयो राज्ञो नाम्ना प्रभाकरः ॥८१॥
तस्मै दित्सति तां तस्मिन् राज्ञि तेनापि सा श्रुता ।
विमलेन सुता तस्य निजपुत्रानुरूपिका ॥८२॥
ततः स विमलस्तस्मात् सुरसेनादयाचत ।
विद्याधरीं दूतमुखात् पुत्रार्थे तां तदात्मजाम् ॥८३॥
सोऽप्यपेक्षितसम्पत्त्या तत्सुताय सुतामदात् ।
प्रभाकराय तस्मै तां सुरसेनो यथाविधि ॥८४॥
तत सा प्राप्य विमलपुराख्यं श्वशुरं पुरम् ।
विद्याधरी समं भर्त्रा शयनीयमगात्निशि ॥८५॥
तत्रासम्भोगसुप्तं सा पतिं सोल्का प्रभाकरम् ।
यावन्निरीक्षते तावत्तमपश्यन्नपुंसकम् ॥८६॥
हा हताऽस्मि कथं षण्डः पतिः प्राप्तो मयेति सा ।
शोचन्ती छतसा रात्रिं राजपुत्री निनाय ताम् ॥८७॥
नपुंसकाय दत्ताहमन्विष्य कथं त्वया ।
इति लेखं लिखित्वा च पित्रे सा प्रहिणोत् ततः ॥८८॥
स दूत वाचायित्वैव विमलेनास्मि वञ्चितः ।
छद्मनाप्यगमत् क्रोधं तत्पिता विमलं प्रति ॥८९॥
सुतां नपुंसकायाहं यद्ब्याजाद्ग्राहितस्त्वया ।
पुत्राय तत्फलं मूढश्वः पश्य त्वामद्य हन्म्यहम् ॥९०॥
इति तस्मै स्वलङ्घनं सन्दिश्य स भूपतिः ।
शूरमना बलोद्रिक्तो विमलाय महीक्षित् ॥९१॥
विमलस्तदधिक्षिप्यत तस्येत्यार्यं गताश्रवः ।
विमृशन् दुजयं तन्निग्रहाय कञ्चिदन्बछत ॥९२॥