कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)
Kathasaritsagara Part 2 (Lambaka 6–18)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)
पृष्ठ 691, कुल 1079 में से
संदर्भ में पढ़ें६४४ कथासरित्सागर
सिंहलेभ्यस्तु शुश्राव गतः स वणिजं निजम्।
देशं कनकवर्माणं चित्रकूटामिधं पुरम् ॥६३॥
ततः कोटीश्वराख्येन वणिजा स समं ययौ।
चन्द्रस्वामी चित्रकूटं तत्पोतोत्तीर्णवारिधिः ॥६४॥
तस्मिन् कनकवर्माणं वणिजं तमवाप सः।
शशंस चाखिलं तस्मै स्वोदन्तं दारकोत्सुकः ॥६५॥
चैतं कनकवर्मा तौ भ्रातराविति सोऽस्य दारको।
दर्शयामास यौ तेन लब्ध्वा नीतावटव्यतः ॥६६॥
चन्द्रस्वामी च तौ यावदीक्षते दारकावुभौ।
तावन्नैव तदीयौ तौ तावन्यावेव कौचन ॥६७॥
ततः सबाष्पं शोकार्तों निराशो विललाप सः।
इयद् भ्रान्त्वापि हा नाप्तो न पुत्रो न सुता मया ॥६८॥
धात्रा कुप्रभुणेवाशा दर्शिता मे न पूरिता।
भ्रामितोऽस्मि च मिथ्यैव दूराद्दूरं दुरात्मना ॥६९॥
इत्यादि शोचन् वणिजा क्रमात् कनकवर्मणा।
आश्वासितः स सेनाद्य चन्द्रस्वामी शुचाऽब्रवीत् ॥७०॥
वत्सरेणारमजो तौ चेन्न प्राप्स्यामि भुवं भ्रमन्।
ततस्त्यक्ष्यामि तपसा गङ्गातीरे शरीरकम् ॥७१॥
इत्युक्तवन्तं तमथो ज्ञानी कोऽपि तमभ्यधात्।
नारायण्या प्रभावात्तौ प्राप्स्यस्येवात्मजौ व्रज ॥७२॥
तच्छ्रुत्वा स प्रहृष्टात्मा भास्करानुग्रहं स्मरन्।
वणिग्भिः पूजितः प्रायाच्चन्द्रस्वामी पुरात्ततः ॥७३॥
ततोऽग्रहारान् ग्रामांश्च चिन्वन् स नगराणि च।
भ्रमन् प्रापैकदा सायं वनं प्रांशुबहुद्रुमम् ॥७४॥
तत्र क्षपयितुं रात्रिं कृत्वा वृत्तिं फलाम्बुभिः।
स तस्थौ तरुमारुह्य सिंहव्याघ्रादिनाङ्किताम् ॥७५॥
अथाद्रवन् निशीथेऽत्र दृप्तं रा तरोरधः।
महन्नारायणीमुख्यं मानुषञ्च रामागतम् ॥७६॥
उपहारान् समाहृत्य नानारूपान्द्विजातिताम्।
प्रतीक्षमाणं देवस्य भैरवस्य बिलागमम् ॥७७॥