सामग्री पर जाएँ
सर्वकोश
कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

Kathasaritsagara Part 2 (Lambaka 6–18)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)

DevanagariHindipublished1,079 पृष्ठ

पृष्ठ 689, कुल 1079 में से

संदर्भ में पढ़ें
पृष्ठ 689

६४२ कथासरित्सागर
ब्रह्मन् स्वप्नेऽहमाविष्टस्तथा देवेन भानुना।
यथा सम्पूज्य भोक्तव्यो न हन्तव्यो मया भवान् ॥४८॥
तदुत्तिष्ठ व्रज स्वच्छमित्युक्त्वा स मुमोष तम्।
प्रत्तमुक्तामृगमद क्लृप्तारण्यानुयायिकम् ॥४९॥
सोऽप्य मुक्तस्ततश्चन्द्रस्वामी तमनुजामृतम्।
अप्राप्यारभ्यत पुत्रं महीपाल गवेषयन् ॥५०॥
भ्रमन्नब्धेस्तटे प्राप्य नाम्ना जलपुरं पुरम्।
प्रविबेशातिथीभूत्वा गृहं विप्रस्य कस्यचित् ॥५१॥
तत्र मुक्तोत्तराख्यातस्ववृत्तान्तं समासतः।
तं स विप्रो गृहपतिश्चन्द्रस्वामिनमभ्यधात् ॥५२॥
वणिक्कनकवर्माख्योऽतीतेष्वगाद्दिनेष्विह ।
तेनाटव्यां स्वसूनुस्त प्राप्तो ब्राह्मणदारकः ॥५३॥
तौ चादायातिभव्यौ द्वौ दारको स इतो गतः।
नारिकेलमहाद्वीपे नोक्तं तन्नाम तेन तु ॥५४॥
तच्छ्रुत्वा मामकावेव नूनं ताविति चिन्तयन्।
चन्द्रस्वामी मतिं चक्रे गन्तुं द्वीपवरं सवम् ॥५५॥
नीत्वा च रात्रिमन्विष्य वणिजा विष्णुवर्मणा।
स व्यधात् सङ्गतिं द्वीप नारिकेलं प्रमास्यता ॥५६॥
तेनैव च सहारुह्य यानपात्रं जगाम सः।
चन्द्रस्वामी सुतस्नेहाद् द्वीपमब्धिपथेन तम् ॥५७॥
तत्र पृच्छन्तमूचुस्तं वणिजस्सनिवासिनः।
वणिक्कनकवर्माख्यः काममासीदिहागतः ॥५८॥
सुरूपारटवीप्राप्तावादाय द्विजदारकौ।
गतः कटाहद्वीप तु तद्युक्तः स इतोऽधुना ॥५९॥
तच्छ्रुत्वा स ततो विप्रो वणिजा दानवर्मणा।
पोतेन गच्छता साकं कटाहद्वीपमभ्यगात् ॥६०॥
तत्रापि स द्विजोऽशृण्वीद् गतं तं वणिजं ततः।
द्वीपात् कनकवर्म्माणं द्वीप कर्पूरमंगलम् ॥६१॥
एवं क्रमेण कर्पूरसुवर्णद्वीपसिंहलान्।
वणिग्भिः सह गत्वापि न प्राप वणिजं स तः ॥६२॥