कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)
Kathasaritsagara Part 2 (Lambaka 6–18)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)
पृष्ठ 687, कुल 1079 में से
संदर्भ में पढ़ें१४ कथासरित्सागर
तद्रक्ष शरणापन्नं त्रैलोक्यैकप्रदीप माम्।
हृदं दुःखाधकारं मे विदारय दयां कुरु॥३३॥
इत्यान्दिभिस्तदा वाक्यैर्भक्त्या स्तुवततो रविम्।
चन्द्रस्वामिद्विजस्यास्य गगनादुच्चचार वाक्॥३४॥
तुष्टोऽस्मि चन्द्रस्वामिंस्तं न त्वं वधमवाप्स्यसि।
मत्प्रसादाच्च पुत्रादिसङ्गमस्ते भविष्यति॥३५॥
इत्युक्तो दिव्यया वाचा जाताश्वस्तस्तत्र तस्थिवान्।
चन्द्रस्वामी स शबरापहृतस्नानभोजनः॥३६॥
तावच्च स महीपालं स्वस्रा युक्तमरण्यगम्।
पित्र्यैनायरयाक्रन्दविधुरं शङ्किताशुभम्॥३७॥
ददर्श तेन मार्गेण सार्थवाहः समागतः।
महान् सार्थधरो नाम वृत्तान्तं पृच्छति स्म च॥३८॥
स तमाश्वास्य कृपया शिशुं दृष्ट्वा सुलक्षणम्।
सार्थवाहो निनाय स्वं देशं स्वसुतसन्नितम्॥३९॥
तत्रासीत् स महीपालो बाल्येऽप्यग्निक्रियारतः।
सन्ते तस्य वणिजः पुत्रस्नेहेन पश्यतः॥४०॥
एकदा नृपतेर्मन्त्री तारापुरनिवासिनः।
ताराधर्माभिधानस्य कायातेनागतः पथा॥४१॥
विवेश सार्थवाहस्य तस्य मित्रं द्विजोत्तमः।
गृहाननन्तस्वामीति सहस्त्रहयपदातिकः॥४२॥
स विश्रान्तोऽत्र तं दृष्ट्वा महीपालं शुभाकृतिम्।
अपाग्निकार्याविरतं वृत्तान्तं परिपृच्छ्य च॥४३॥
अनपत्यो विदित्वा च सवर्णं सार्थवाहतः।
तस्मादयाचत्परयार्थी मन्त्री सद् भगिनीं च ताम्॥४४॥
ततस्तौ तेन वैश्येन दत्वावानाय दारकौ।
सार्थवाहेन सानन्तस्वामी तारापुरं ययौ॥४५॥
तत्र पुत्रीकृतस्तेन महीपालः स मन्त्रिणा।
तस्थ्यौ सद् भवनेऽप्यस्य विद्याविपुलसम्पदि॥४६॥
अत्रान्तरं च यद्यु तं चन्द्रस्वामिनमेत्य सः।
भिल्लाधिपः सिंहदंष्ट्रः पप्रच्छात्तस्याममापतत्॥४७॥