सामग्री पर जाएँ
सर्वकोश
कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

Kathasaritsagara Part 2 (Lambaka 6–18)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)

DevanagariHindipublished1,079 पृष्ठ

पृष्ठ 673, कुल 1079 में से

संदर्भ में पढ़ें
पृष्ठ 673

१२६ कथासरित्सागर
सेनादृष्ट्यास्य निर्गान् नागी वहान्नृपस्य सा।
विशन्ति शापभीता हि न कुमारगृहं स्त्रियः ॥१७४॥
ततः कनकवर्षोऽसौ स्वेन मानुषतेजसा।
विवेश गर्भभवनं तस्य देवस्य पावकेः ॥१७५॥
स तं नाग्यनधिष्ठानात् पूर्वतेजोविनाकृतम्।
दृष्ट्वा नृपं म्रियेतत् स्यादिति देवोऽप्यचिन्तयत् ॥१७६॥
ज्ञात्वा नागीबलव्याजनिर्व्यूढविषमद्रवम्।
प्रणिधानाच्च तं क्रुद्धः शशाप स नृपं गुहः ॥१७७॥
व्याजस्त्वया कृतो यस्मादतो जातेन सूनुना।
महादेव्यौ च दुर्दान्तो वियोगस्ते भविष्यति ॥१७८॥
निर्घासदारुणं श्रुत्वा शापमेतं स भूपतिः।
सूक्तैस्तुष्टाव तं देवं मोहं मुक्त्वा महाकविः ॥१७९॥
स सुभाषिततुष्टोऽथ षण्मुखस्तमभाषत।
राजंस्तुष्टोऽस्मि सूक्तैस्ते शापान्तं तव वच्मि तत् ॥१८०॥
भविष्यत्यब्दमेकं ते पत्नीपुत्रवियुक्तता।
मुक्तोऽप्यमृत्युरित्यास्तौ च प्राप्स्यस्यत परम् ॥१८१॥
इत्युक्त्वा विरतालापं षण्मुखं स प्रणम्य तम्।
तत्प्रसादसुधातृप्तो राजा स्वपुरमाययौ ॥१८२॥
तत्र तस्यामृतस्यन्दौ ज्योत्स्नायामिव शीतगोः।
दम्यां मदनसुन्दर्यां क्रमात्सूनुरजायत ॥१८३॥
दृष्ट्वा सुतमुखं सोऽथ राजा राज्ञी च सा मुहुः।
अत्यानन्दमयायुक्ते नामर्ततां सदारमनि ॥१८४॥
तत्कालं चोत्तरङ्गं चक्रं वसु वर्षम् स भूपतिः।
निजां कनकवर्षाख्यां मयग्भुवि यथार्थनाम् ॥१८५॥
पञ्चरात्रे गते षष्ठ्यां रजनौ जातजन्मनि।
कृत रक्षाविधौ तत्र मधोऽगङ्गितमागतः ॥१८६॥
ततः श्रुतिमवाप्तानां सत्राश्च नभः क्रमात्।
शत्रुगोपेशितनेव राज्यं राज्ञः प्रमान्ति ॥१८७॥
मदन्यश्च क्षिपन्नाशं वर्षम्योग्भूसित्रदृम् ।
नतो पार्वितुमारभ वातमत्तमनेङ्कजः ॥१८८॥