कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)
Kathasaritsagara Part 2 (Lambaka 6–18)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)
पृष्ठ 669, कुल 1079 में से
संदर्भ में पढ़ें६२२ कथासरित्सागर
रात्रावकस्माज्जैकाकी विनिद्रः शयनस्थितः ।
द्वारमुद्घाटितेऽप्यन्तः प्रविष्टां स्त्रियमैक्षत ॥१४४॥
विनीता सौम्यरूपा च सा तं साश्चर्यमुत्थितम् ।
कृतप्रणाम वक्ताशीः क्षितीश्वरमभाषत ॥१४५॥
पुत्र मां विद्धि तनयां नागराजस्य वासुकेः ।
त्वत्पितुर्भगिनीं ज्येष्ठां नाम्ना रत्नप्रभामिमाम् ॥१४६॥
रक्षार्थं तेऽन्तिके शश्वददृष्टा च वसाम्यहम् ।
अद्य दृष्ट्वा सचिन्तं त्वामात्मा ते बोधितो मया ॥१४७॥
न द्रष्टुमुत्सहे ग्लानिं तव तद्ब्रूहि कारणम् ।
इत्युक्तः स तया राजा पितृष्वस्रा जगाद ताम् ॥१४८॥
धन्योऽस्म्यम्ब यस्यैव त्वं प्रसादं करोषि मे ।
अनिवृत्तिं च मे विद्धि पुत्रासम्भवहेतुकाम् ॥१४९॥
अपि राजर्षयो यत्र पुरा दशरथादयः ।
स्वर्गार्थमेवेच्छंस्तत्राम्ब कथं नेच्छन्तु मादृशाः ॥१५०॥
एतत्कनकवर्षस्य नृपतेस्तस्य सा वचः ।
श्रुत्वा रत्नप्रभा नागी भ्रातुः पुत्रमुवाच तम् ॥१५१॥
तर्हि पुत्र वदाम्येकं यमुपायं कुरुष्व तम् ।
गत्वा स्वामिकुमारं त्वमतदर्थं प्रसादय ॥१५२॥
कुमारधारां विघ्नाय पतन्तीं मूर्ध्नि दुःसहाम् ।
शरीरान्तःप्रविष्टायाः प्रभावान्मम सहिष्यसे ॥१५३॥
विघ्नजातं विजित्या यदपि प्राप्स्यसि वाञ्छितम् ।
इत्युक्तान्तर्दधे नागी राजा हृष्टोऽक्षिपत्क्षपाम् ॥१५४॥
प्रातर्मन्त्रिषु विन्यस्य राज्यं पुत्राभिकाङ्क्षया ।
ययौ स्वामिकुमारस्य पादमूलं स भूपतिः ॥१५५॥
तत्र तीव्रं तपश्चक्रे तमाराधयितुं प्रभुम् ।
तयार्पितबलो नाग्या शरीरान्तःप्रविष्टया ॥१५६॥
ततोऽशनिनिभा राज्ञः पतितुं तस्य मूर्धनि ।
कुमारवारिधारा सा प्रवृत्ताभूदनारतम् ॥१५७॥
स च सहे शरीरान्तर्गतनागीबलेन ताम् ।
ततस्तस्याभिविप्सार्थं हेरम्बं प्रेरयद्गुहः ॥१५८॥