कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)
Kathasaritsagara Part 2 (Lambaka 6–18)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)
पृष्ठ 659, कुल 1079 में से
संदर्भ में पढ़ें६१२ कथासरित्सागर
दृष्ट्वा च देवस्याकारं निवृत्तः संशयो मम।
देव एव तया चित्रे मठस्तनामलिखितः ॥७६॥
सा पादसङ्गे सदृशी शक्या लिखितुमित्यहम्।
चित्रं देवस्य पार्श्वे तां न लिखामि समामपि ॥७७॥
इत्युक्तवन्तं स रोल्देवं राजा जगाद सः।
तर्हि त्वया सा तच्चित्रपटस्था दर्शयतामिति ॥७८॥
ततो वंशगुलिकातस्तं १ कृष्ट्वा पटमदर्शयत्।
स चित्रकृतां चित्रस्यां राज्ञे मदनसुन्दरीम् ॥७९॥
राजा कनकवर्षोऽपि तां स चित्रगतामपि।
विचित्ररूपामालोक्य सद्यः स्मरवशो ययौ ॥८०॥
पूरयित्वा च बहुना हेम्ना चित्रकरं स तम्।
आप्तप्रियाचित्रपटो विवशाभ्यन्तरं नृपः ॥८१॥
तत्र तद्रूपलावण्यदर्शनातृप्तलोचनः।
त्यक्तसर्वक्रियस्तस्थौ तदेकमयमानसः ॥८२॥
वबाधे धैर्यहारी च निर्मोत्सृष्टान्तरे शरैः।
रूपस्पर्द्धासमुद्भूतमत्सर्य इव मन्मथः ॥८३॥
या वक्ता रूपलुब्धानां स्मरार्त्तिस्तन योषिताम्।
फलितेव च साभास्य दातस्यान महीक्षितः ॥८४॥
ततो दिनैश्च विरहम्लानपाण्डुः शनैस्स सः।
आप्तेभ्यः सचिवेभ्यस्तत्पृच्छद्भ्यः स्वं मनोगतम् ॥८५॥
मन्त्रयित्वा च तैः सार्द्धं कन्यां मदनसुन्दरीम्।
याचितुं प्राहिणोद्दूतं स राज्ञे देवशक्तये ॥८६॥
सङ्गमस्वामिनामानं कार्यज्ञं कार्यवेदिनम्।
विप्रमाप्तं कुलीनं च मधुरोदात्तभाषिणम् ॥८७॥
स गत्वा सुमहार्हेण विप्रः परिकरेण सान्।
विद्रमन् सङ्गमस्वामी प्राविशत्कुण्डिनं पुरम् ॥८८॥
यथावत् तत्र राजानं देवशक्तिं ददर्श तम्।
स स्वामिनोऽर्थे तस्माच्च प्रार्थयामास तत्सुताम् ॥८९॥
१ पुराकाले पुस्तकपत्रादिरक्षणार्थं वंशस्य लोहस्य वा गोलाकारं किमपि प्रवर्त्तन्ते स्म
तदेव वंशगुलिका भवेत्। पटचित्राणां कृते वेष्टनदण्डोऽपि भवति। तदेव वा भवेत्।