कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)
Kathasaritsagara Part 2 (Lambaka 6–18)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)
पृष्ठ 653, कुल 1079 में से
संदर्भ में पढ़ें६६ कथासरित्सागर
स कदाचिच्छरत्काले सोष्मप्युन्मदवारणः।
राजहंसपरीवारे सोत्सवानन्दितप्रजे ॥३३॥
आत्मतुल्यगुणं रन्तुं चित्रप्रासादमविशत्।
आकृष्टपद्मदामोदवहन्मारुतशीतलम् ॥३४॥
तत्र निर्वर्णयन् यावत्तच्चित्रं स प्रशसति।
तावत् प्रविश्य भूपं तं प्रतीहारो व्यजिज्ञपत् ॥३५॥
इहागतो निवर्त्तेभ्योऽपूर्वश्चित्रकरः प्रभो।
अनन्यसममात्मानं चित्रकर्मण्युदाहरन् ॥३६॥
रोलदेवाभिधानेन सिंहद्वारेऽत्र तेन च।
एतदेवाभिलिख्याद्य चीरिकोल्लम्बिता१ किल ॥३७॥
तच्छ्रुत्त्वादराद् भूपेनादिष्टानयनः स तम्।
आनिनाय प्रतीहारो गत्वा चित्रकरं क्षणात् ॥३८॥
स प्रविश्य ददर्शात्र चित्रावलोकनलीलया।
स्थितं कनकवर्णं तं नृपं चित्रकरो रहः ॥३९॥
वरनारीकुचासङ्गसमर्पिततनूभरम् ।
सहेलोदञ्चितकरोपात्तताम्बूलवीटिकम् ॥४०॥
प्रणम्य चोपविष्टस्तं राजानं विहितादरम्।
शनैर्विज्ञापयामास रोलदेवः स चित्रकृत् ॥४१॥
चीरिकोल्लम्बिता यद्यत् त्वत्पादाब्जदिदृक्षया।
मया न विज्ञानमदात् तत्क्षन्तव्यमिदं मम ॥४२॥
आदिश्यतां च चित्रं किमालिखामीह रूपकम्।
भवत्प्रत्यक्षतादिशायत्नो मे सफलो प्रभो ॥४३॥
इति चित्रकरोक्ते स राजा निजगाद तम्।
उपाध्याय यथाकामं किञ्चिन्नालिख्यतां त्वया ॥४४॥
ह्लाद्यामो वयं यद्यद्भ्रान्तिस्तत्त्वोपगते तु का।
इत्युक्तं तेन राज्ञाऽत्र तत्पार्श्वस्था बभाषिरे ॥४५॥
राज्ञोऽविकलतामन्यैरित्थं प्रोक्ते किं प्रयोजनम्।
तच्छ्रुत्वा चित्रकृत् प्रा तं राजानमालिखत् ॥४६॥
१ पुरातने विज्ञापनार्थं पटे विलिख्य लम्ब्यते स्म। साम्प्रतं साईनबोर्ड 'बोलर' इत्यादि
कथ्यते।