सामग्री पर जाएँ
सर्वकोश
कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

Kathasaritsagara Part 2 (Lambaka 6–18)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)

DevanagariHindipublished1,079 पृष्ठ

पृष्ठ 651, कुल 1079 में से

संदर्भ में पढ़ें
पृष्ठ 651

६४ कथासरित्सागर

व्रजाम इति जल्पित्वा पतित्वा सोऽस्य पादयोः।
राज्ञः प्रसङ्गतो निरगात् मन्त्रिद्वययुतस्ततः ॥२१॥
महो पुत्रेष्वपि बद्धास्था सेवका मे दृढा इमे।
सर्वत ममन त्याज्या इति सञ्चिन्त्य तत्क्षणम्॥२२॥
स राजा तान् प्रसङ्गादीनानाय्यैव तथा धनैः।
अपूरयद्यथा भूयो नतान् दारिद्र्यमस्पृशत्॥२३॥
एवं विचित्रा दृश्यन्त स्वभावा देव वहिनाम्।
यत्कार्ये स नृपो नादावकाल तु ददौ तथा॥२४॥
इत्याख्याय कथास्थानपटुर्भूयः स गोमुखः।
वत्सेश्वरसुतादेशादिमामक्कथयत्कथाम् ॥२५॥

राज्ञः कनकवर्षस्य कथा

आसीद् गङ्गातटे पूर्व पूतपौरं तदम्बुभिः।
सौराज्यरम्यं कनकपुराख्यं नगरोत्तमम्॥२६॥
यत्र बन्धः कविगिरां छव पत्रेष्वदृश्यत।
भङ्गोऽलकेषु नारीणां सम्यक्संग्रहणे खलः॥२७॥
तत्र वासुकिनागेन्द्रतनयात् प्रियदर्शनात्।
जाता यशोधराख्यायां राजपुत्र्यां महायशाः॥२८॥
आसीत् कनकवर्षाख्यो नगरे नृपतिः पुरा।
हरत्नभूभारवोढापि योऽशेषगुणभूषितः॥२९॥
मुग्धो यशसि न त्वर्थे भीतः पापान्न शत्रुतः।
मूर्खः परापवादेषु न च शास्त्रेषु योऽभवत्॥३०॥
अल्पस्य यस्य कोपोऽभून्न प्रसादः महार्घ्यतः।
चापे च बद्धमुष्टित्वं न दाने धीरचेतसः॥३१॥
यमात्यदम्भुसम्पन्नं रक्षता चाखिलं जगत्।
मारव्यथाकुलं चक्र दृष्टेनैवावलाजनः॥३२॥


१ काव्येष्वेव गोमूत्रिकाकमलादयो बन्धा दृश्यन्ते स्मतापराधिनां बान्धवमभूत्।
राज्येऽपराधाभावात्।
२ खलः -यत्र ह्वलंकैस्तरंतंगृहः क्रियते क्षेत्रादानीप। अन्यत्र खतो दुर्जनं मूर्तः।
३ अनिर्णीतव्येति भावः।