कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)
Kathasaritsagara Part 2 (Lambaka 6–18)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)
पृष्ठ 645, कुल 1079 में से
संदर्भ में पढ़ें५१८ कथासरित्सागर
धावित्वा चात्र समरबलं तं सम्मुखागतम्।
आहत्य शक्त्या राजानं पाशेनाकृष्य बद्धवान्॥२२३॥
ततं समरशूरं च भुवि बाणाहतं नृपम्।
द्वितीयं तद्वदाकृष्य पाशेनैव बबन्ध सः॥२२४॥
तृतीयं चात्र समरक्षितं नाम महीपतिम्।
वीराख्यस्तत्प्रतीहारो बद्ध्वा तत्पार्श्वमानयत्॥२२५॥
सेनापतिर्देवबलस्तस्यान्यं समर्पयत्।
नृपं प्रतापचन्द्राख्यं चतुर्थ सायकाहतम्॥२२६॥
ततः प्रतापसेनाख्यस्तद्दृष्ट्वा पञ्चमो नृपः।
क्रोधाच्चमरवालं तं भूपमभ्यपतद्रणे॥२२७॥
स तु निर्धूय तद् बाणान् स्वशरीरेण विद्धवान्।
राजा चमरवालस्तं ललाटे त्रिभिराशुगैः॥२२८॥
कण्ठक्षिप्तन पाशेन तं च काल इवाथ सः।
आकृष्य स्ववशे चक्रे शराघातविमूर्च्छितम्॥२२९॥
एवं राजसु बद्धेषु तेषु पञ्चस्वपि क्रमात्।
हतशेषाणि सैन्यानि दिक्ष्वस्तेषां प्रदुद्रुवुः॥२३०॥
अमितं हेमरत्नादि बहून्यन्तःपुराणि च।
राज्ञा चमरबालेन प्राप्तान्येषां महीभुजाम्॥२३१॥
तन्मध्ये च महादेवी यशोल्लेखेति विश्रुता।
राज्ञः प्रतापसेनस्य प्राप्ता तेनाङ्गनोत्तमा॥२३२॥
ततः प्रविश्य नगरं वीरब्देवबलौ च सः।
क्षत्त्रसेनापती पट्टं बद्ध्वा रत्नैर्पूरयत्॥२३३॥
प्रतापसेनमहिषीं दाशभ्रमजितेति ताम्।
यशोल्लेखां स भूपतिः स्वावरोधवधूं व्यधात्॥२३४॥
भुजार्जिताहमस्येति मोहे मां न्यपत्तापि यम्।
काममोहप्रवृत्तानां शबला धर्मबासना॥२३५॥
दिनेश्चाभ्यर्थितो राज्ञ्या स यशोलेखया तया।
राजा चमरवालस्तान् बद्धान् पञ्चापि भूपतीन्॥२३६॥
प्रतापसेनप्रभृतीन्गृहीतविनयादृतान् ।
मुमोच निजराज्येषु सस्कृत्य विससर्ज च॥२३७॥