कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)
Kathasaritsagara Part 2 (Lambaka 6–18)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)
पृष्ठ 643, कुल 1079 में से
संदर्भ में पढ़ें५९६ कथासरित्सागर
तपस्य स्वप्नदृष्टायास्तस्याः पूर्वोक्तयोर्द्वयोः।
विभोर्भोगाधियं तत्र वव्रे सास्मै ददौ च ताम् ॥२०८॥
अथागत्य यशोवर्मा गृहं देवीप्रसादतः ।
अचिन्तितोपगामिन्या तस्थौ भोगधिया सुखम् ॥२०९॥
तदेव भोगसम्पन्ना धीरप्यल्पतरा वरम्।
न पुनर्भोगरहिता सुविस्तीर्णाप्यपार्थका ॥२१०॥
तत्किं समरखारस्य राज्ञः कार्पण्यसम्भवा।
तप्यध्वे दानभोगाभ्यां वीक्ष्य स्वां श्रियं न किम् ॥२११॥
अतस्तं प्रति युष्माकमवस्कन्दो न भद्रकः ।
यात्राछन्नश्च नास्त्येव नापि वा दृश्यते जयः ॥२१२॥
इत्युक्ता अपि ते तेन पृच्छ ज्योतिर्विदा नृपाः ।
ययुस्समरखारुं तं नृपं प्रत्यसहिष्णवः ॥२१३॥
सीमाप्राप्तांश्च तान् बुद्ध्वा निर्यास्यन्समराय सः।
राजा समरखारुः प्राक्स्नात्वा हरमपूजयत् ॥२१४॥
अष्टषष्ट्युत्तमस्थाननियतर्नामभिः शुभैः ।
यथावत्त च तुष्टाव पापघ्नैः सर्वकामदैः ॥२१५॥
राजन्युध्यस्व निश्शङ्कु शत्रूञ्जेष्यसि सङ्करे ।
इत्युद्गतां च गगनात्सोऽथ शुश्राव भारतीम् ॥२१६॥
ततः प्रहृष्टः सन्नह्य तेषां निजबलान्वितः ।
राजा समरखालोऽग्रे युद्धाय निरगाद्विषाम् ॥२१७॥
त्रिंशद् गजसहस्राणि त्रीणि लक्षाणि वाजिनाम् ।
कोटिः पादातटानां च तस्यासीद्वैरिणो बले ॥२१८॥
स्वबले च पदातीनां तस्य लक्षाणि विंशतिः ।
दश दन्तिसहस्राणि हयानां लक्षमप्यभूत् ॥२१९॥
प्रवृत्तं तु महायुद्धं तयोरुभयसेनयोः ।
यथार्थनाम्नि वीराख्ये प्रतीहारश्रियामयिनि ॥२२०॥
स्वयं समरवालोऽसौ राजा वहन्मराङ्गजम् ॥
महावगाहो भगवा महानद्यमिवाविशत् ॥२२१॥
मग्नः क्षात्र्यर्मन्मार्गेऽपि परसैन्यं महत्क्षणात् ।
यघाश्वगजपत्तीनां हयानां राजन्नोऽभवत् ॥२२२॥