सामग्री पर जाएँ
सर्वकोश
कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

Kathasaritsagara Part 2 (Lambaka 6–18)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)

DevanagariHindipublished1,079 पृष्ठ

पृष्ठ 641, कुल 1079 में से

संदर्भ में पढ़ें
पृष्ठ 641

५९४ कथासरित्सागर
क्षणान्न्र सुहृदेकस्तमिच्छामरणनामकः ।
उपागत्यैव रभसाद् भोगवर्माणमभ्यधात् ॥१९३॥
मित्र भोजनमस्माकमुत्तिष्ठागच्छ भुञ्ज्महे ।
सुहृदो मिलिता ह्यन्ये त्वत्प्रतीक्षा स्थिता इति ॥१९४॥
अद्याहं नांगमिष्यामि प्राघुणोऽद्य स्थितो हि मे ।
इति ब्रुवाणं पुनरप्येनं स सुहृदब्रवीत् ॥१९५॥
भवता सममायातु तर्हि प्राघुणिकोऽप्ययम् ।
एषोऽपि न किमस्माकं मित्रमुत्तिष्ठ सत्वरम् ॥१९६॥
इत्याग्रहाद् भोगवर्मा नीतो मित्रेण तेन सः ।
यशोवर्मयुतो गत्वा भुङ्क्ते स्माहारमुत्समम् ॥१९७॥
पीत्वा च पानमागत्य सायं स स्वगृहे पुनः ।
सयशोवर्मको भेजे विचित्रं पानभोजनम् ॥१९८॥
प्राप्तायां निशि पप्रच्छ निजं परिजनं च सः ।
किमद्य रात्रिपर्याप्तमस्ति न सरकं न वा ॥१९९॥
स्वामिन्नास्तीति तेनोक्तं स भेजे शयनं वणिक् ।
पास्यामोऽपररात्रेश्च कथं जलमिति ब्रुवन् ॥२००॥
यशोवर्माथ तत्पार्श्वे सुप्तः स्वप्नेऽथ दृष्टवान् ।
प्रविष्टान् पुरुषान् क्षिप्रानन्यांस्तर्षा च पृच्छतः ॥२०१॥
कस्मादपररात्रार्थं सरकं भोगवर्मणः ।
चिन्तितं नाद्य युष्माभिः श्वभ्रभाङ्ग् स्थितः शठाः ॥२०२॥
इति पश्चात्प्रविष्टास्ते पुरुषा दण्डपाणयः ।
पूर्वप्रविष्टान् क्रोधात्तान् दण्डाघातैरताडयन् ॥२०३॥
अपराधोऽयमेको नः क्षम्यतामिति वादिनः ।
दण्डाहतास्ते पुरुषास्ते चाम्ये निरगुंस्ततः ॥२०४॥
यशोवर्माथ तद्द्दृष्ट्वा प्रबुद्ध्य समचिन्तयत् ।
अचिन्त्योपमतिः क्ष्माप्या भोगश्रीर्भोगवर्मणः ॥२०५॥
भोगहीना समुद्धापि नार्थ्यधीर्यशोवर्मणः ।
इति चिन्तयतस्तस्य सातिचक्रम यामिनी ॥२०६॥
प्रातश्च स यशोवर्मा तमामन्त्र्य वणिग्वरम् ।
जगाम विन्ध्यवासिन्याः पादमूलं पुनस्ततः ॥२०७॥