कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)
Kathasaritsagara Part 2 (Lambaka 6–18)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)
पृष्ठ 637, कुल 1079 में से
संदर्भ में पढ़ें५९ कथासरित्सागर
तच्छ्रुत्वा स यशोवर्मा देवीं तां प्रत्यभाषत।
एतयोर्निपुणं वत्से नाहं भेदं धियोरिति ॥१६४॥
सततस्तमवदद्देवी स्वदेशे तर्हि यौ सख।
भोगवर्माऽर्थवर्माणौ विद्येते वणिजावुभौ ॥१६५॥
तयोर्गत्वा धियं पश्य ततो यत्सदृशी च ते।
रोचिष्यत तत्सदृशी त्वयागत्याभ्यतामिति ॥१६६॥
एतच्छ्रुत्वा प्रबुध्यैव स प्रातः कृतपारणः।
स्वंऽशा कौतुकपुरं यशोवर्मा ततो ययौ ॥१६७॥
भोगवर्माऽर्थवर्मणोः वणिजोः कथा
तत्रागात् प्रथमं तावत् स गृहानर्थवर्मणः।
असङ्ख्यहेमरत्नादिम्यवहाराजितश्रियः ॥१६८॥
पश्यन्तां सम्पदं तस्य यथावृत्तमपाययौ।
कृतातिथ्यश्च तेनासौ भोजनाय न्यमन्त्र्यत ॥१६९॥
ततोऽत्राभुङ्क्त मधृतं समांसम्यञ्जनं च सः।
प्राघूर्णोचितमाहारं पार्श्वे तस्यार्थवर्मणः ॥१७० ॥
अर्थवर्मा तु भुङ्क्ते स्म घृतार्धपलसंयुतान्।
सक्तून् भक्तमपि स्तोकं मांसव्यञ्जनमल्पकम् ॥१७१॥
सार्थवाह किमेतावदश्नासीति सकौतुकम्।
स यशोवर्मणा पृष्टो वणिगेवमभाषत ॥१७२॥
अद्य त्वदुपरोधेन समांसव्यञ्जनं मया।
भुक्तं स्तोकं घृतस्यार्धपलं भुक्तं च सक्तवः ॥१७३॥
सदा तु घृतकपं च सक्तून्धाश्नामि केवलान्।
अतोऽधिकं मे मन्दानलरुदरे नैव जीर्यते ॥१७४॥
तच्छ्रुत्वा स यशोवर्मा विचिकित्सन्निनिन्द ताम्।
हृत्स्येन श्रियं तस्य निष्फलामर्थवर्मणः ॥१७५॥
ततो निशागमे भक्तं क्षीरं चानाययत्पुनः।
अर्थवर्मा वणिज्सस्य स यशोवर्मणः कृते ॥१७६॥
यशोवर्मा च भूयस्तद्यथाकाममभुङ्क्त सः।
अर्थवर्मापि स तदा क्षीरस्यर्धं पलं पपौ ॥१७७॥
तत्रैव चवरस्थाने तावास्तीर्णशयनायुभौ।
यशोवर्मार्थवर्माणौ शनैर्निद्रामुपेयतुः ॥१७८॥