सामग्री पर जाएँ
सर्वकोश
कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)

DevanagariHindipublished1,079 पृष्ठ

पृष्ठ 63, कुल 1079 में से

संदर्भ में पढ़ें
पृष्ठ 63

४२ कथासरित्सागर
अथैतां मानुषीभूतां स्वभार्यां परिणेष्यसि ।
प्रत्यक्षमेनामपि च द्रक्ष्यस्यन्येन सङ्गताम् ॥१२५॥
ततो विरक्तहृदयो दत्त्वा राज्यं द्विजन्मने ।
देवप्रभ यदा शान्तो वनं गन्तुं प्रपत्स्यसि ॥१२६॥
तदा प्रथममुक्तेऽस्मिन्गजरत्नावुजे तव ।
अनया भार्यया साकं शापात्त्वमपि मोक्ष्यसे ॥१२७॥
इति सिद्धोक्तशापान्ता वय प्राक्कर्मभवत् ।
एवं जाता पृथग्भोगाच्छापान्तं सैष चाद्य नः॥१२८॥
एवं सोमप्रभेणोक्ते स रत्नाधिपतिर्नृप ।
जातिं स्मृत्वाग्रवीद्धन्त सैष देवप्रभो ऽहम् ॥१२९॥
एषापि राजदत्ता मा पत्नी राजवती मम ।
इत्युक्त्वा स तया साकं भार्यया तां तनु जहौ ॥१३० ॥
क्षणात्सर्वेऽपि गन्धर्वा भूत्वा लोकस्य पश्यतः ।
समुत्पत्य निजं धाम ययुस्ते मरुद्याधस्रम् ॥१३१॥
धीरुवरयपि शीलस्य माहात्म्यात्प्राप्य सम्पदम् ।
ताम्रलिप्तीं पुरीं गत्वा तस्थौ धर्मोपसेविनी ॥१३२॥
इति जगति न रक्षितुं समर्थः क्वचिदपि कश्चिदपि प्रसह्य नारीम् ।
अवति तु सततं विशुद्ध एकः कुलयुवतीं निजमरूपाशबन्धः ॥१३३॥
एवं सर्ष्या नाम दुःशङ्कहेतुर्ह्येष पुंसां क्लेशदायी परेषाम् ।
योऽयं मा मुद्रक्षणायाङ्गनानामर्थोत्सुक्यं प्रत्युतासां करोति ॥१३४॥
इति नरवाहनदत्तो रत्नप्रभया स्वभार्यया कथिताम् ।
स निशम्य कथामभ्यां सचिवैः सार्धं परं मुमुदे ॥१३५॥
इति महाकविश्रीमत्सोमदेवभट्टविरचिते कथासरित्सागरे रत्नप्रभालम्बके
द्वितीयस्तरङ्गः ।

तृतीयस्तरङ्गः
निश्चयदत्तस्य अनुरागपरावरूपाश्च कथा
एवं रत्नप्रभाख्यानकपात्रमत्त इवापरम् ।
नरवाहनदत्तं तं सचिवो गोमुखोऽब्रवीत् ॥१॥