सामग्री पर जाएँ
सर्वकोश
कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

Kathasaritsagara Part 2 (Lambaka 6–18)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)

DevanagariHindipublished1,079 पृष्ठ

पृष्ठ 627, कुल 1079 में से

संदर्भ में पढ़ें
पृष्ठ 627

५८ कथासरित्सागर
गच्छ भुङ्क्ष्व यथाकामं धनं प्राप्तं स्वभूमितः ।
इति वत्सेश्वरेणापि व्यादिष्टोऽसौ वणिक्ततः ॥९३॥
स एष पादयो राज्ञः पतित्वा हर्षनिर्भरः ।
तूर्याणि वादयन् याति स्वगृहं सानुगो वणिक् ॥९४॥
एवं हरिशिखेनोक्तां श्रुत्वा धार्मिकतां पितुः ।
नरवाहनदत्त स्तान्सचिवान्विस्मितोऽब्रवीत् ॥९५॥
यदि तावदरत्यांस्त्वन्यत्र ददाति किम् ।
चित्रमुच्छ्रायपाताभ्यां क्रीडतीव विधिर्नृणाम् ॥९६॥
तच्छ्रुत्वा गोमुखोऽथावीदीदृश्येव गतिर्विषः ।
समुद्रशूरस्य कथा सथा चात्र निशम्यताम् ॥९७॥
समुद्रशूरस्य कथा
बभूव नगरं पूर्वं नृपतेर्हर्षवर्मणः ।
स्फीतं हर्षपुरं नाम सौराज्यसुखितप्रजम् ॥९८॥
तस्मिन्समुद्रशूराख्यो नगरेऽभून्महावणिक् ।
कुलजो धार्मिको धीरसत्त्वो बहुधनेश्वरः ॥९९॥
स वणिज्यावशाद् गच्छन् सुवर्णद्वीपमेकदा ।
आरुरोह प्रवहणं तत् प्राप्य महाम्बुधौ ॥१००॥
गच्छतस्तस्य तत्राथौ किञ्चिच्छेषे तदध्वनि ।
घोरः समुद्बभूवेषो वायुश्च क्षोभितार्णवः ॥१०१॥
तेनोर्मिभगविक्षिप्ते वहने मकराहतं ।
भग्ने परिकरं बद्ध्वा सोऽम्बुधावपतद्वणिक् ॥१०२॥
यावच्च बाहुविक्षेपैर्वीरोऽत्र तरति क्षणम् ।
तावच्छिरोमृतं प्राप पुरुषं पवनरितम् ॥१०३॥
तदारूढश्च बाहुभ्यां क्षिप्तोऽम्बुविधिनेव सः ।
नीतः सुवर्णद्वीप तदनुकूलेन वायुना ॥१०४॥
तत्रावतीर्णे पुळिने स तस्मा मृतमानुषात् ।
कटीनिबद्ध मप्रन्थि तस्यार्षक्षत शाटकम् ॥१०५॥
उन्मुच्य वीक्षते यावच्छाटकं त्रुटितोऽन्य तत् ।
तावत्तदन्तरद्विध्य रत्नार्ग्य प्राप कण्ठकम् ॥१०६॥
तं दृष्ट्वाऽनर्घमादाय कृतस्नानस्तुतोष सः ।
मन्वानाऽसौ विनष्टं तदनं तस्याग्रतस्सुखम् ॥१०७॥