कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)
Kathasaritsagara Part 2 (Lambaka 6–18)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)
पृष्ठ 619, कुल 1079 में से
संदर्भ में पढ़ेंत्वत्तो धामनिघृष्टासी भूतग्रामो विजृम्भते।
नाष स्फुलिङ्गसङ्घात इव प्रज्वलतोऽनलात् ॥३४॥
पुनश्च प्रविशत्येष त्वामेव प्रलयागमे।
दिनान्ते विहगव्रात इव वासमहाद्रुमम् ॥३५॥
सृजस्युल्लसित स्वांशांस्त्वमतान् भुवनेश्वरान्।
अनन्तवेलाक्षुभितस्तरङ्गानिब वारिधिः ॥३६॥
विश्वरूपोऽप्यरूपस्त्वं विश्वकर्मापि चाक्रियः।
विश्वाधारोऽप्यनाधारः कः स सत्त्वमवैति ते ॥३७॥
तां सामुद्रि सुराः प्राप्तास्त्वत्प्रसङ्गेक्षवेक्षिताः।
तत्प्रसीद प्रपन्नं मां पश्य पश्यार्द्रया दृशा ॥३८॥
एव कृतस्तुतिं दृष्ट्वा सप्रसादेन चक्षुषा।
नरवाहनदत्तं च हरिनारदमभ्यधात् ॥३९॥
गच्छ क्षीरोदसम्भूता या वराप्सरसः पुरा।
न्यासीकृत्य मया हस्ते शक्रस्य स्थापिताः स्वकाः ॥४०॥
तास्तस्मान्मम वाक्येन मृगयित्वा महामुने।
आरोप्य तद्रथे सर्वाः सत्वरं स्वमिहानय ॥४१॥
इत्युक्तो हरिणा गत्वा नारदः स उपेत्य ताः।
आनिन्येऽप्सरसः शक्रात्तद्रथेन समातरि ॥४२॥
तेन तासूर्पनीतासु प्रणतेनाप्सरःस्वथ।
वत्सराजतनुजं च भगवानादिदेश सः ॥४३॥
नरवाहनदत्तैतास्तुभ्यमप्सरसो मया।
दत्ता विद्याधरेन्द्राणां भविष्यच्चक्रवर्त्तिने ॥४४॥
त्वमासामुचितो भर्त्ता मार्यादिद्यैतास्तवापिताः।
: कामदेवावतारो हि निमित्तस्य पुरारिणा ॥४५॥
तच्छ्रुत्वा पादपतिते तस्मिन् वत्सेश्वरात्मजे।
लब्धप्रसात्समुदिते हरिर्मातलिमादिशत् ॥४६॥
नरवाहनदत्तोऽसावप्सरःसहितस्त्वया ।
प्राप्यतां स्वगृहं यावत्पद्या येनायमिच्छति ॥४७॥
एवं भगवतादिष्टः साप््सरस्कं प्रणम्य तम्।
नरवाहनदत्तं स रथे मातलिगारथिम् ॥४८॥