सामग्री पर जाएँ
सर्वकोश
कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

Kathasaritsagara Part 2 (Lambaka 6–18)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)

DevanagariHindipublished1,079 पृष्ठ

पृष्ठ 603, कुल 1079 में से

संदर्भ में पढ़ें
पृष्ठ 603

५५६ कथासरित्सागर
देवपुत्रस्य सुप्रभस्य कथा
अहं हि भावि पश्यामि दिव्यदृष्ट्या शुभाशुभम् ।
त्रिदिवस्थो यथाद्राक्षीत्सुप्रभो देवपुत्रकः ॥११७॥
स हि पुण्यक्षयात्स्वर्गात्पतनं भावि दिव्यदृक् ।
सप्ताहात्सूकरीगर्भे सम्भवं श्वशतात्मनः ॥११८॥
ततः स सूकरीगर्भवासक्लेशं विभावयन् ।
देवपुत्रोऽत्यजोद्भ्रान्तिर्दिव्यान्भोगान्सहारमनाः ॥११९॥
हा स्वर्गं हा ह्यप्सरसो हा नन्दनलतागृहाः ।
हा वत्स्यामि कथं क्रोडीगर्भे तदनु कर्दमे ॥१२०॥
इत्यादि विलपन्तं तं श्रुत्वाभ्येत्य सुराधिपः ।
पप्रच्छ सोऽपि स्वं तस्मै दुःखहेतुमवर्णयत् ॥१२१॥
ततः शक्रो जगादैनमस्त्युपायोऽत्र ते शृणु ।
व्रजौ नमः शिवायेति जपञ्छरणमीश्वरम् ॥१२२॥
तं गत्वा शरणं हित्वा पापं पुण्यमवाप्स्यसि ।
येन प्राप्स्यसि न क्रोडयोनिं स्वर्गाच्च च्युतिम् ॥१२३॥
इत्युक्तो देवराजेन सुप्रभोऽथ तथेति सः ।
उक्त्वा नमःशिवायति शम्भुं शरणमग्रहीत् ॥१२४॥
तमयं स दिनं षड्भिस्तत्प्रसादान्न केवलम् ।
निक्षिप्तं सूकरीगर्भे यावत्स्वर्गादुपर्यगात् ॥१२५॥
सप्तमेऽह्नि च तं स्वर्गे तत्रापश्यत् शतक्रतुः ।
वीक्षते यावदधिकं लोकान्तरमसौ गतः ॥१२६॥
इत्थं शुशोष स यथा दृष्ट्वाघं भावि सुप्रभः ।
तथैव भाविनं मृत्युं दृष्ट्वा शोचामि भूभृतः ॥१२७॥
एवमुक्तवतीं भूमिं तां स वीरवरोऽब्रवीत् ।
यथाम्ब सुप्रभस्याभूदुपायः शक्रवाक्यतः ॥१२८॥
तथा यद्यस्ति राज्ञोऽस्य रक्षोपायस्तदुच्यताम् ।
इति वीरवरोक्ते पृथिवी तमुवाच सा ॥१२९॥
१ अदृष्ट्वेत्यर्थः । अपश्येति प्रयोगश्चिन्त्योऽमीषां पाणिनीयानाम्।