सामग्री पर जाएँ
सर्वकोश
कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

Kathasaritsagara Part 2 (Lambaka 6–18)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)

DevanagariHindipublished1,079 पृष्ठ

पृष्ठ 595, कुल 1079 में से

संदर्भ में पढ़ें
पृष्ठ 595

५४८ कथासरित्सागर

तस्य विक्रीय तद्धस्तस्थं कार्पटिकः सुखम्।
विलासिनीमपि सा राज्ञः प्रविशद्यान्तिकं तदा॥६०॥
तस्मै च स्फूरद्रम्यं तन्मातुलुङ्गमदीदृशत्।
सोऽपि तत्प्रत्यभिज्ञाय तां पप्रच्छ तदागमम्॥६१॥
ततो जगाद सा दत्तमिव कापटिकेन मे।
तच्छ्रुत्वा स नृपो दध्यौ लक्ष्म्या सोऽद्यापि नेक्षितः॥६२॥
मन्दपुण्यो न यो वेत्ति मत्प्रसादमनिष्फलम्।
मामेव घतान्यायान्ति महार्हरत्नान्यहो मुहुः॥६३॥
इति ध्यात्वा गृहीत्वा तस्यापयित्वा च रक्षितम्।
मातुलुङ्गं स उत्थाय चक्रे भूपतिराह्निकम्॥६४॥
चतुर्धेऽह्नि च साज्रापार्द्राजास्थानं तथैव सत्।
पूर्यते स्म च तत्सर्वैः सामन्तसचिवादिभिः॥६५॥
ततस्तत्र तमायान्तं भूयः कार्पटिकं नृपः।
उपवेश्याग्रतः प्राग्वत् तामायामपाठयत्॥६६॥
ददौ च मातुलुङ्गं सतस्मै तच्च द्रुतोन्मिषत्।
तस्य हस्तार्थसम्प्राप्तं द्विधामूत्पतितं भुवि॥६७॥
पिधानसन्धिभग्नाच्च तस्माद्रत्नानि निर्ययुः।
भासयन्ति तदास्थानं महार्घाणि बहूनि च॥६८॥
तानि दृष्ट्वाब्रुवन् सर्वे परमार्थमजानताम्।
व्यह्र मुपा भ्रमोऽभून्न प्रभावस्त्वीदृशः प्रभो॥६९॥
एतच्छ्रुत्वावब्रवीद्राजा मया युक्त्यानया ह्ययम्।
दर्शनं धीरौदार्यस्य किं न वेत्ति परीक्षितः॥७०॥
पापान्तश्च न्यहं नास्य प्राप्तं प्राप्तोऽस्य राज्यं तु।
तन्नद्य दर्शनं रुद्ध्वा दत्तमत्तस्य साम्प्रतम्॥७१॥
इत्युक्त्वा तानि रत्नानि ग्रामान् हस्त्यश्वकाञ्चनम्।
दत्त्वा चकार सामन्तं स तं कार्पटिकं प्रभुः॥७२॥
उत्तस्थौ च ततः स्नातुमास्थानात् संस्तुवञ्जनात्।
ययौ कार्पटिकः सोऽपि कृतार्थो वसतिं निजाम्॥७३॥
१ संस्तुवन्तः राज्ञ औदार्यं जनाः = तस्या यस्मिन् तदास्थानं तत्संस्तुवञ्जनादित्यर्थः।
आस्थानं सभा। माघभर्तौ वनीयमास्थानं रमीषपूर्लस्यो तत्र - 'इत्याद्यः।