सामग्री पर जाएँ
सर्वकोश
कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

Kathasaritsagara Part 2 (Lambaka 6–18)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)

DevanagariHindipublished1,079 पृष्ठ

पृष्ठ 593, कुल 1079 में से

संदर्भ में पढ़ें
पृष्ठ 593

५४६ कथासरित्सागर
स च कार्पटिको विम्नो' हस्तं कृत्वा तु तत्फलम्।
राजप्रसादं सफलं मन्वानो निर्ययौ बहिः ॥४८॥
तावत्तस्याययौ कोऽपि विषयाधिकृतो'ऽग्रतः।
प्रविविक्षुस्तदास्थानं द्रष्टुकामो महीक्षितम् ॥४९॥
स दृष्ट्वा मातुलुङ्गं तदुपवव्रे कार्पटिकात्ततः।
आददे शकुनापेक्षी दत्त्वास्मै वस्त्रयोर्युगम् ॥५०॥
प्रविश्य च नृपास्थानं पावनम्रो नृपाय तत्।
मातुलुङ्गं ददावादौ ततोऽन्यत् प्राभृतं' निजम् ॥५१॥
परिज्ञाय च तद्राज्ञा फलं स विषयाधिपः।
कुत एतत्तवेत्युक्तोऽवोचत्कार्पटिकादिति ॥५२॥
अहो वदति नाद्यापि लक्ष्मीस्तस्येह दर्शनम्।
इत्यन्तश्चिन्तयन्सोऽथ राजाऽभून्मना भृशम् ॥५३॥
उत्सस्र्जो मातुलुङ्गं तद् गृहीत्वास्थानतश्च सः।
सोऽपि कार्पटिको वस्त्रयुग्मं प्राप्यापणं ययौ ॥५४॥
चक्रे भोजनपानादि विक्रीत्यैकं च शाटकम्।
द्वितीयं च द्विधा कृत्व वाससी द्वे व्यधत्त सः ॥५५॥
ततस्तृतीयेऽपि दिने सर्वास्थानं स पार्थिवः।
व्यधात्तथैव सर्वेभ्यः प्रविशेन्न पुनर्जने ॥५६॥
तस्मै प्रविष्टाय च तन्मातुलुङ्गं तथैव सः।
भूपोऽप्याहूय तामायां पाठयित्वा नृपो ददौ ॥५७॥
विस्मितेष्वथ सर्वेषु सोऽपि कार्पटिको बहिः।
गत्वा राजविलासिन्यै तददाद्बीजपूरकम् ॥५८॥
सा तस्मै राजसम्मानतत्स्वस्तीव जङ्गमा।
जातरूपं ददौ पुष्पमिवाग्रफलसूचकम् ॥५९॥
१ व्याकुलः।
२ विषयस्य - देशस्य अधिकृत - अधिकारी प्रशासकः।
३ प्राभृतम् - राज्ञे प्रदेयमुपहारम् यत् शुभोदर्कल्पितमासीत्।