सामग्री पर जाएँ
सर्वकोश
कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

Kathasaritsagara Part 2 (Lambaka 6–18)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)

DevanagariHindipublished1,079 पृष्ठ

पृष्ठ 591, कुल 1079 में से

संदर्भ में पढ़ें
पृष्ठ 591

५४४ कथासरित्सागर ९
यस्मै तुष्यति राजायं दारिद्र्यं तस्य कृन्तति।
सोऽथ कार्पटिकस्त्वेवं समाहूयैवमादरात् ॥३४॥
मातुलुङ्गमिदं दत्तं तुष्टेनानेन भूभृता।
कल्पवृक्षोऽप्यभव्यानां प्रायो याति पलाशताम् ॥३५॥
इति सर्वेऽपि तद्दृष्ट्वा तत्रास्थाने विषादिनः।
अज्ञातपरमार्थत्वात्स्वैरमूचुः परस्परम् ॥३६॥
स तु कार्पटिको मातुलुङ्गमादाय निर्ययौ।
आययौ चाग्रतस्तस्य भिक्षुरेको विपीदतः ॥३७॥
स राजवन्दिनामा तद्दृष्ट्वा शाटकमग्रहीत्।
तस्मात्कार्पटिकान् मातुलुङ्गं दृष्ट्वा मनोरमम् ॥३८॥
प्रविश्य च स भिक्षुस्तद्राज्ञः फलमढौकयत्।
राजा च तत्परीक्षाय श्रमणं पृच्छति स्म तम् ॥३९॥
मातुलुङ्गं कुत इदं भदन्त भवतामिति।
सतं कार्पटिकं सोऽस्म वदातारं शशंस चम् ॥४०॥
अथ राजा विषण्णश्च विस्मितश्च बभूव सः।
अहो अद्यापि न क्षीणं पापं तस्येति चिन्तयन् ॥४१॥
स्वीकृत्य मातुलुङ्गं तदुत्थायास्थानतः क्षणात्।
चकार दिनकर्त्तव्यं *रक्तदत्तं स भूपतिः ॥४२॥
सोऽपि कार्पटिको गत्वा सिंहद्वारे यथास्थितः।
कृतभोजनपानादिरासीद्विक्रीतशाटकः ॥४३॥
द्वितीयेऽह्नि स राजा च सर्वास्थानं तथैव तत्।
विदधे तत्र सर्वे च सपोराः प्राविशन् पुनः ॥४४॥
दृष्ट्वा कार्पटिकं स च प्रविष्टं सोऽथ भूमिभृत्।
तथैवाहूय पुनरप्युपावेशयदन्तिके ॥४५॥
पाठयित्वा च भूयोऽपि तामेवार्याँ प्रसादतः।
गूढरत्नं ददौ तस्मै मातुलुङ्गं तदेव सः ॥४६॥
अहो द्वितीये दिवसे तुष्टोऽस्यायं वृथा प्रभुः।
किं तावदेतदित्यत्र सर्वे दध्युः सविस्मयाः ॥४७॥